________________
स्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्त्तमात्रेण कालेन अनन्तानुबन्धिनः क्रोधादीन् उपशमयति, एवं सर्वत्र युगपदुपशमककालोऽन्तर्मुहूर्त्तप्रमाण एव द्रष्टव्यः, ततो दर्शनं दर्शस्तं, दर्शनं त्रिविधं-मिथ्या सम्यग्मिथ्या सम्यग्दर्शनं युगपदेवेति, ततोऽनुदीर्णमपि नपुंसकवेदं युगपदेव यदि पुरुषः प्रारम्भकः, पश्चात्स्त्रीवेदमेककालमेवेति, ततो हास्यादिषट्-हास्यरत्य|रतिशोकभयजुगुप्साषट्, पुनः पुरुषवेदं । अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदमुपशमयति पश्चात्पुरुषवेदं ततः षद | ततः स्त्रीवेदमिति । अथ नपुंसक एव प्रारम्भकः ततोऽसौ अनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति पश्चात्पुरुषवेदं ततः |पहूं ततो नपुंसकवेदमिति, पुनः 'द्वौ द्वौ क्रोधाद्यौ 'एकान्तरितौ' संज्वलनविशेषक्रोधाद्यन्तरितौ 'सदृशौ' तुल्यौ 'सदृशं' | युगपदुपशमयति, एतदुक्तं भवति-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ सदृशौ क्रोधत्वेन युगपदुपशमयति, ततः संज्व| लनं क्रोधमेकाकिनमेव, ततः अप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदेव ततः संज्वलनमानमिति, एवं मायाद्वयं सदृशं 8| पुनः संज्वलनां मायां, एवं लोभद्वयमपि पुनः संज्वलनं लोभमिति, तं चोपशमयंत्रिधा करोति, द्वौ भागौ युगपदुपशम
यति, तृतीयभाग संख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति, पुनः संख्येयखण्डानां चरमखण्डं असंख्येयानि खण्डानि करोति, सूक्ष्मसंपरायस्ततः समये समये एकै खण्डं उपशमयतीति, इह च दर्शनसप्तके | उपशान्ते निवृत्तिबादरोऽभिधीयते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् संख्येयान्तिमद्विचरमखण्डं । आह-संज्वलनादीनां युक्त इत्थमुपशमः, अनन्तानुबन्धिनां तु दर्शनप्रतिपत्तावेवोपशमितत्वान्न युज्यत इति, उच्यते, दर्शनप्रतिपत्तौ तेषां क्षयो
dan Education International
For Personal & Private Use Only
www.jainelibrary.org