________________
Cocoroton
यत एव बही कर्मस्थितिरनेन उन्मूलिता, अत एवापचीयमानदोषस्य सम्यक्त्वादिगुणलाभः संजायते, निश्शेषकर्मपरिक्षये सिद्धत्ववत् , तत एव च मोक्ष इति, अतो न शेषमपि कर्म गुणरहित एवापाकृत्य मोक्षं प्रसाधयतीति स्थितम् । इदानीं सम्यक्त्वादिगुणप्राप्तिविधिरुच्यते-जीवा द्विधा भवन्ति-भव्याश्चाभव्याश्च, तत्र भव्यानां करणत्रयं भवति, करण|मिति परिणामविशेषः, तद्यथा-यथाप्रवृत्तकरणं अपूर्वकरणं अनिवृत्तिकरणं च । तत्र यथैव प्रवृत्तं यथाप्रवृत्तं तच्चानादि, अप्राप्तपूर्वमपूर्व, निवर्तनशीलं निवर्ति न निवर्ति अनिवर्ति, आ सम्यग्दर्शनलाभात् न निवर्त्तते, तत्राभव्यानां आद्यमेव भवति, तत्र यावदन्थिस्थानं तावदाद्यं भवंति, तमतिकामतो द्वितीय, सम्यग्दर्शनलाभाभिमुखस्य तृतीयमिति ॥१०६॥ इदानीं करणत्रयमङ्गीकृत्य सामौयिकलाभदृष्टान्तानभिधित्सुराह
पल्लय १ गिरिसरिउवला २ पिवीलिया ३ पुरिस ४ पह ५ जरग्गहिया ६ ।
कुद्दव ७ जल ८ वत्थाणि ९ य सामाइयलाभदिदृन्ता ॥ १०७॥ व्याख्या-तत्र पल्लकदृष्टान्तः-पल्लको लाटदेशे धान्यधाम भवति, तत्र यथा नाम कश्चिन्महति पल्ये धान्य प्रक्षिपति स्वाल्पं स्वल्पतरं,प्रचुरं प्रचुरतरं त्वादत्ते, तच्च कालान्तरेण क्षीयते, एवं कर्मधान्यपल्ये जीवोऽनाभोगतः यथाप्रवृत्तकरणेन स्वल्प तरमुपचिन्वन् बहुतरमपचिन्वंश्च ग्रन्थिमासादयति, पुनस्तमतिकामतोऽपूर्वकरणं भवति, सम्यग्दर्शनलाभाभिमु. | कर्मक्षपणनिबन्धनस्याध्यवसायमात्रस्य सर्वदैव भावात् (इति विशे० १२०३ गाथावृत्तौ), २ सम्यक्त्वादिरूप०. * उच्छेदिता. + नेदं.
न्याधारो. नेदं. अल्पमल्पतरं. अल्पतर०.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org