SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 36*** त्रिंशत्सागरोपमकोटीकोव्यः परा स्थितिः, सप्ततिर्मोहनीयस्य, नामगोत्रयोविंशतिः, त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य, इति, जघन्या तु द्वादश मुहूर्ता वेदनीयस्य, नामगोत्रयोरष्टौ, शेषाणामन्तर्मुहूर्त (तत्त्वार्थे अ०८ सूत्राणि १५-१६-१७-१८-१९२०-२१) इति गाथार्थः॥१०५॥ आह–किमेता युगपदेव उत्कृष्टां स्थितिमासादयन्ति उत एकस्यां उत्कृष्टस्थितिरूपायां संजातायां अन्या अपि नियमतो भवन्ति आहोस्विदन्यथा वा वैचित्र्यमंत्रेति, उच्यते अंत्र विधिरिति, मोहनीयस्य उत्कृष्टस्थितौ शेषाणामपि षण्णामुत्कृष्टैव, आयुष्कप्रकृतेस्तु उत्कृष्टा वा मध्यमा वा, न तु जघन्येति, मोहनीयरहितानां तु शेषप्रकृतीनां अन्यतमाया उत्कृस्थितेः सद्भावे मोहनीयस्य शेषाणां च उत्कृष्टा वामध्यमावा, न तु जघन्येति प्रासङ्गिक। द्वितीयगाथाव्याख्या-सप्तानामायुष्करहितानां कर्मप्रकृतीनां या पर्यन्तवर्तिनी स्थितिस्तामङ्गीकृत्य सागरोपमाणां कोटीकोटी तस्याः कोटीकोट्या अभ्यन्तारत एव, तुशब्दोऽवधारणार्थः, कृत्वाऽऽत्मानमिति गम्यते 'यदि लभते' यदि प्राप्नोति, चतुर्णा श्रुतसामायिकादीनामन्यतरत्, तत एव लभते नान्यथेति, पाठान्तरं वा 'कृत्वा सागरोपमाणां स्थितिं लभते चतुर्णामन्यतरत्' इत्यक्षरगमनिका । अवयवार्थोऽभिधीयते-सप्तानां प्रकृतीनां यदा पर्यन्तवर्तिनी सागरोपमकोटीकोटी पल्योपमासंख्येयभागहीना भवति, तदा घनरागद्वेषपरिणामोऽत्यन्तदुर्भेद्यदारुग्रन्थिवत् कर्मग्रन्थि KARARASI निषेकरूपेति. २ प्रतिविधानं. ३ आहेत्यादितः संवेधकथनरूपं, प्रसङ्गस्तु पूर्वमुस्कृष्टस्थितौ सामायिकप्रतिषेधात् मध्यमायां तु लाभकथनात्. S| स्वस्वस्थितौ क्षीणायां या शेषा तिष्ठति सा. * ०मेवेति. + तत्र. तिसगावे. न्तर एव. Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy