________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥४॥
तच्च नामादि चतुर्विधं, तद्यथा-नाममङ्गलं १ स्थापनामङ्गलं २ द्रव्यमङ्गलं ३ भावमङ्गलं ४ चेति । तत्र “यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं (च) नाम यादृच्छिकं च तथा ॥१॥" अस्यायमर्थः-'यद्' 'वस्तुनो' जीवाजीवादेः 'नाम' यथा गोपालदारकस्येन्द्र इति, 'स्थितमन्यार्थे' इति परमार्थतः त्रिदशाधिपेऽवस्थानात, 'तदर्थनिरपेक्षम्' इति इन्द्रार्थनिरपेक्षं, कथम् ? तत्र गुणतोवरीत इति, इन्दनादिन्द्रः 'इदि परमैश्वर्ये' इति तस्य परमैश्वर्ययुक्तत्वात् , गोपालदारके तु तदर्थशून्यमिति, तथा पर्यायैः-शक्रपुरन्दरादिभिः नाभिधीयत इति, इह नामनामवतोरभेदोपचाराद्गोपालवस्त्वेव गृह्यते, एवंभूतं नामेति, तथाऽन्यत्रावर्त्तमानमपि किञ्चिद् यादृच्छिकं डित्यादिवत्, चशब्दात् यावद्रव्यभावि च प्रायस इति । यत्तु सूत्रोपदिष्टं “णाम आवकहियं" तत् प्रतिनियतजनपदसंज्ञामाश्रित्येति, नाम च तन्मङ्गलं चेतिसमासः, तत्र यत् जीवस्थाजीवस्योभयस्य वा मङ्गलमिति नाम क्रियते तन्नाममङ्गलं, जीवस्य यथा | -सिन्धुविषयेऽग्निर्मङ्गलमभिधीयते, अजीवस्य यथा-श्रीमल्लाटदेशे दवरकवलनकं मङ्गलमभिधीयते, उभयस्य यथा-चन्दनमालेति । “यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥२॥" अस्यायमर्थः-'यद्' वस्तु 'तदर्थवियुक्तं' भावेन्द्राद्यर्थरहितं, तस्मिन्नभिप्रायस्तदभिप्रायः, अभिप्रायो बुद्धिः, तदुद्ध्येत्यर्थः, करणिराकृतिः, यच्चन्द्राद्याकृति 'लेप्यादिकर्म क्रियते' चशब्दात्तदाकृतिशून्यं चाक्षनिक्षेपादि 'तत्स्थापनेति' तच्चे-
॥४॥
तत्वभेदपर्यायैाख्येतिनियमात् प्राक्तत्वं मङ्गलस्य हितप्राप्त्यायभिधाय भेददर्शनाय. २ चतुर्विधे मङ्गले. ३ आवृत्तस्य नामलक्षणप्रतिपादकप्र४ न्यस्येति वा. ४ आदिना तदुभयस्य. ५ गुणतः, ६ त्रिदशाधिपे.७ इन्द्रस्य.८ इन्द्रार्थेति. ९ अभिधानान्तरेऽपि प्रागभिधानवाच्यत्वात्. १० परावृत्तिभावात्.
Join Education International
For Personal & Private Use Only
www.jainelibrary.org