SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ हि मोदकस्य त्रिधाविभक्तस्य अपान्तरालद्वयं नास्ति, एवं प्रकृतशास्त्रस्यापीति भावार्थः । मङ्गलत्वं चाशेषशास्त्रस्य निर्जरार्थत्वात् , प्रयोगश्च-विवक्षितं शास्त्रं मङ्गलं, निर्जरार्थत्वात् , तपोवत् । कथं पुनरस्य निर्जरार्थतेति चेत्, ज्ञानरूपत्वात्, ज्ञानस्य च कर्मनिर्जरणहेतुत्वात् , उक्तं च-"ज नेरइओ कम्म, खवेइ बहुयाहि वासकोडी हिं। तं नाणी तिहि गुत्तो, खवेइ उसासमित्तेणं ॥१॥"। स्यादेतत्, एवमपि मङ्गलत्रयपरिकल्पनावैयर्थ्यमिति, न, विहितोत्तरत्वात् , तस्मात्स्थितमेतत्-शास्त्रस्य आदौ मध्येऽवसाने च मङ्गलमुपादेयमिति । __ आह-मङ्गलमिति कः शब्दार्थः१, उच्यते, अगिरगिलगिवगिमगि इतिदण्डकधातुः, अस्य "इदितो नुम्धातोः" (पा० ७-१-५८) इति नुमि विहिते औणादिकालचूप्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति, मङ्गचते हितमनेनेति मङ्गलं, मङ्गयते अधिगम्यते साध्यत इतियाँवत्, अथवा मङ्गेतिधर्माभिमानं, 'ला आदाने' अस्य धातोर्मङ्ग उपपदे "आतोऽनुपसर्गे कः” (पा० ३-२-३) इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते “आतो लोप इटि च |ङ्किति” (पा० ६-४-६४ आतो लोप इटि च ) इत्यनेन सूत्रेणाकारलोपे च प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, | मङ्गलातीति मङ्गलं धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः। SAROSAROKAR १ अनुमानस्य. २ मङ्गलत्रयस्य अविघ्नसमाप्त्यादिकार्यत्रयस्य पृथक्पृथक्तया साधकत्वात्. ३ सिद्धम्. ४ सदृशधातूनामेकार्थे पाठात्. ५ प्रात्यर्थ त्वात् गत्य र्थानां. ६ निदर्शनमात्रत्वाद्धातूनाम्. ७ पर्यायस्य पर्यायकथने प्रयोग एतस्य. A N and arora For Personal & Private Use Only www.janelibrary.org
SR No.600220
Book TitleAavashyaksutram Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy