________________
ज्ञाताधर्मकथाङ्गम्. ॥ ४५ ॥
वा सन्मानयामः - उचितप्रतिपत्तिभिः कल्याणं- कल्याणहेतुं मङ्गलं - दुरितोपशमहेतुं दैवतं - दैवं चैत्यमिव चैत्यं पर्युपासयामः - सेवामहे, एतत् णो- अस्माकं प्रेत्यभवे - जन्मान्तरे हिताय पथ्यान्नवत् सुखाय - शर्मणे क्षमाय-संगतत्वाय निःश्रेयसाय - मोक्षाय आनुगामिकखाय-भवपरम्परासुखानुबन्धिसुखाय भविष्यतीति कृत्वा - इतिहेतोर्बहव उग्रा - आदिदेवावस्थापितारक्षवंशजाः उग्रपुत्रा:-त एव कुमाराद्यवस्था एवं भोगा :- आदिदेवेनै घाव स्थापितगुरुवंशजाताः राजन्या - भगवद्वयस्यवंशजाः क्षत्रियाःसामान्य राजकुलीनाः भटाः - शौर्यवन्तो योधाः - तेभ्यो विशिष्टतरा मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्थाष्टादश गणराजानो नव मल्लकिनो नव लेच्छकिन इति, लेच्छत्ति कचिद्वणिजो व्याख्याताः लिप्सव इति संस्कारेणेति, राजेश्वरादयः प्राग्वद्, 'अप्पेगइय'त्ति अप्येके केचन 'वंदणवत्तियं' ति वन्दनप्रत्ययं वन्दनहेतोः शिरसा कण्ठे च कृता - धृता माला यैस्ते शिरसाकण्ठेमालाकृताः कल्पितानि हारार्द्धहारत्रिसरकाणि प्रालम्बश्च - प्रलम्बमानः कटिसूत्रकं च येषां ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चन्दनावलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा, पुरिसवग्गुरत्ति - पुरुषाणां वागुरेव वागुरा-परिकरं च महया - महता उत्कृष्टिश्व-आनन्दमहाध्वनिः गम्भीरध्वनिः सिंहनादश्च बोलव-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च - व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव - जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते कुर्वाणाः 'एगदिसिं 'ति एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा - एकं भगवन्तं अभि मुखं येषां ते एकाभिमुखा निर्गच्छन्ति, 'इमं च णं'ति इतश्थ 'रायमग्गं च ओलोएमाणे एवं च णं विहरह, तते णं से मेहे कुमारे ते बहवे उग्गे जाव एगदिसाभिमुहे निग्गच्छ
Jain Education International
For Personal & Private Use Only
१ उत्क्षिप्त
ज्ञाते श्रीवीरसम
वसरणं
सू. २१
॥ ४५ ॥
www.jainelibrary.org