SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अभिधीयन्ते, वियडजाणत्ति अनाच्छादितानि वाहनानि रहत्ति-संग्रामिकाः परियानिकाश्चाष्टाष्ट, तत्र संग्रामरथानां कटीप्रमाणा|फलकवेदिका भवन्ति, वाचनान्तरे रथानन्तरमश्वा हस्तिनश्चाभिधीयन्ते तत्र ते वाहनभूताः ज्ञेयाः, गाम'त्ति-दशकुलसाह-11 सिको ग्रामः तिविहदीवत्ति-त्रिविधा दीपाः अवलंबनदीपाः शृङ्गलाबद्धा इत्यर्थः, उत्कम्पनदीपाः-ऊर्ध्वदण्डवन्तः पञ्जरदीपा अभ्रपटलादिपञ्जरयुक्ताः त्रयोऽप्येते त्रिविधाः सुवर्णरूप्यतदुभयमयखादिति, एवं स्थालादीनि सौवर्णादिभेदात् त्रिविधानि |वाच्यानि, कइविका-कलाचिका अवएज इति-तापिकाहस्तकः 'अवपक्क'त्ति अवपाक्या तापिकेति संभाव्यते, मिसियाओ-2 आसनविशेषाः करोटिकाधारिकाः स्थगिकाधारिकाः द्रवकारिकाः-परिहासकारिकाः, शेष रूढितोऽवसेयं, 'अन्नं चेत्यादि, विपुलं-प्रभूतं धनं-गणिमधरिममेयपरिच्छेद्यभेदेन चतुर्विधं कनकं च-सुवर्ण रत्नानि च-कर्केतनादीनि खस्वजातिप्रधानवस्तूनि वा मणयश्चन्द्रकान्ताद्या मौक्तिकानि च शङ्खाश्च प्रतीता एव शिलाप्रवालानि च-विद्रुमाणि अथवा शिलाश्च-राजपट्टा गन्धपेषणशिलाश्च प्रवालानि च-विट्ठमाणि रक्तरत्नानि च-पद्मरागादीनि एतान्येव 'संत'त्ति सत् विद्यमानं यत्सार-प्रधानं खापतेयं-द्रव्यं तद्दन्तवन्ताविति प्रक्रमः, किंभूतं ?–'अलाहि'त्ति अलं-पर्याप्तं परिपूर्ण भवति 'या'त्ति यावत्परिमाणं आसप्तमात् | कुललक्षणे वंशे भवः कुलवंश्यस्तस्मात्सप्तमं पुरुषं यावदित्यर्थः प्रकाम-अत्यर्थं दातुं-दीनादिभ्यो दाने एवं भोक्तुंस्वयं भोगे परिभाजयितुं-दायादादीनां परिभाजने तत्परिमाणं दत्तवन्ताविति प्रकृतं, 'उपिति उपरि 'फुहमाणेहिं मुयंगमत्थएहि' स्फुटनिरिवातिरभसाऽऽस्फालनात् मृदङ्गमस्तकैः-मर्दलमुखपुटैः 'रायगिहे नगरे सिंघाडग' इत्यनेनालापकाशेनेदं द्रष्टव्यं-'सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु' 'महया जणसद्देइ वा' इह यावत्करणादिदं दृश्यं 'जणसमूहेइ नाट वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy