________________
यथोचितां 'स्थितिपतितां' स्थितौ - कुलमर्यादायां पतिता - अन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सव संबन्धिनी सा स्थितिपतिता तां, वाचनान्तरे 'दसदिवसियं ठियपडियन्ति दशाहिकमहिमानमित्यर्थः कुरुत कारयत वा, 'सएहिं 'ति शतपरिमाणैः, 'दायेहिं' ति दानैः, वाचनान्तरे शतिकांश्चेत्यादि, यागान् देवपूजाः दायान्- दानानि भागान् लब्धद्रव्य विभागानिति, प्रथमे दिवसे जातकर्म - प्रसवकर्म्म नालच्छेदन निखननादिकं द्वितीयदिने जागरिकां- रात्रिजागरणं तृतीये दिवसे चन्द्रसूर्यदर्शनं उत्सवविशेष एत इति पाठान्तरे तु प्रथमदिवसे स्थितिपतितां तृतीये चंद्रसूर्यदर्शनिकां षष्ठे जागरिकां 'निवत्ते असुइजायकम्मकरणे' त्ति निवृत्ते - अतिक्रान्ते - अशुचीनां जातकर्म्मणां करणे 'निवत्ते सुइजायकम्मकरणे' त्ति वा पाठान्तरं तत्र निर्वृत्ते - कृते शुचीनां जातकर्मणां करणे 'बारसाहे दिवसेत्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामहां समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाहः पूर्यते तत्र तथा, मित्राणि सुहृदः ज्ञातयो - मातापितृभ्रात्रादयः निजकाः| स्वकीयाः पुत्रादयः खजनाः - पितृव्यादयः संबन्धिनः- श्वशुरपुत्रश्वशुरादयः परिजनो दासीदासादिः बलं च सैन्यं च गणनायकादयस्तु प्रागभिहिताः, 'महइमहालइ 'त्ति अतिमहति, आस्वादयन्तावाखादनीयं, परिभाजयन्तौ अन्येभ्यो यच्छन्तौ मातापितराविति प्रक्रमः, 'जेमिय'त्ति जेमितौ भुक्तवन्तौ, 'भुत्तुत्तर'त्ति भुक्तोत्तरं - भुक्तोत्तरकालं 'आगय'ति आगतावुपवेशनस्थाने इति गम्यते, 'समाणे 'ति सन्तौ, किंभूतौ भूलेत्याह ? - आचान्तौ शुद्धोदकयोगेन चोक्षौ लेपसिक्थाद्यपनयनेन अत एव परमशुचिभूताविति, 'अयमेयारूवे' त्ति इदमेतद्रूपं गौणं कोऽर्थो ? - गुणनिष्पन्नं नामधेयं-प्रशस्तं नाम मेघ इति । क्षीरधात्र्या - स्तन्यदायिन्या मण्डनधात्र्या - मण्डिकया मज्जनधात्र्या - स्त्रापिकया क्रीडनधात्र्या - क्रीडनकारिण्या अङ्कधात्र्या
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org