SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ रजतानां १२ जातरूपाणां १३ अञ्जनपुलकानां १४ स्फटिकानां १५ रिष्ठानां १६, किमत आह-यथाबादरान्-असारान् यथासूक्ष्मान्-सारान् ततो वैक्रियं करोति, 'अभयकुमारमणुकंपमाणेत्ति अनुकम्पयन् हा तस्याष्टमोपवासरूपं कष्टं वर्तते इति विकल्पयनित्यर्थः, पूर्वभवे-पूर्वजन्मनि जनिता-जाता या स्नेहात्पीतिः-प्रियख न कार्यवशादित्यर्थः बहुमानश्च-गुणानुरामस्ताभ्यां सकाशात् जातः शोकः-चित्तखेदो विरहसद्भावेन यस्य स पूर्वजनितस्नेहप्रीतिबहुमानजातशोकः, वाचनान्तरे-'पूर्वभवजनितस्नेहप्रीतिबहुमानजनितशोभस्तत्र शोभा-पुलकादिरूपा, तस्मात्स्वकीयात् विमानवरपुण्डरीकात्, पुण्डरीकता च विमानानां मध्ये उत्तमसात् 'रयणुत्तमाउ'त्ति रत्नोत्तमात् रचनोत्तमावा 'धरणीतलगमनाय' भूतलप्राप्तये त्वरितः-शीघ्रं संजनित:उत्पादितो गमनप्रचारो-गतिक्रियावृत्तिर्येन स तथा, वाचनान्तरे 'धरणीतलगमनसंजनितमनःप्रचार' इति प्रतीतमेव,18| व्याघूर्णितानि-दोलायमानानि यानि विमलानि कनकस्य प्रतरकाणि च-प्रतरवृत्तरूपाणि आभरणानि च-कर्णपूरे मुकुटंचमौलिः तेषामुत्कटोय आटोपः-स्फारता तेन दर्शनीय:-आदेयदर्शनो यः स तथा, तथा अनेकेषां मणिकनकरत्नानां पहकर'त्ति निकरस्तेन परिमण्डितो-भक्तिभिश्चित्रो विनियुक्तक:-कट्यां निवेशितो 'मणु'त्ति मकारस्य प्राकृतशैलीप्रभवखात् योऽनुरूपो गुणः-कटिसूत्रं तेन जनितो हर्षो यस्य स तथा, प्रेङ्खोलमानाभ्यां-दोलायमानाभ्यां वरललितकुण्डलाभ्यां यदुज्ज्वलितम्उज्ज्वलीकृतं वदनं-मुखं तस्य यो गुण:-कान्तिलक्षणः तेन जनितं सौम्यं रूपं यस्य स तथा, वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते "वाघुन्नियविमलकणगपयरगवडेंसगपकंपमाणचललोलललियपरिलंबमाणनरमगरतुरगमुहसयवि|णिग्गउग्गिन्नपवरमोत्तियविरायमाणमउडुकडाडोवदरिसणिज्जे” तत्र व्याघूर्णितानि-चञ्चलानि विमलकनकप्रतस्काणि Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy