________________
वत् , 'वाहपामोक्खंति अश्रुविमोचनं 'पिया'इत्यादौ पितोपचारतो लोकेऽन्योऽपि रूढो, यदाह-"जनेता चोपनेता च, यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता, पञ्चैते पितरः स्मृताः ॥१॥" इति जनकग्रहणं स्थापका:-गृहस्थधर्मे दारादिसञ्चहणात् प्रतिष्ठापका:-राजादिसमक्षं स्वपदनिवेशनेन संरक्षकाः-नानाव्यसनेभ्यः सङ्गोपकाः-यदृच्छाचारितायां संवरणात् , 'अरणिति अरणिरग्नेः उत्पादनार्थ निर्मथ्यते यद्दारु 'सरगं करेइ'त्ति शरको निर्मथ्यते तद्येनेति, 'नो वन्नहेतु'मित्यादि, अनेन च किमुक्तं भवति ?-'नन्नत्यत्ति एकस्याः सिद्धिगमनप्रापणार्थतया अन्यत्र नाहारमाहारयति, तां वर्जयिखा कारणान्तरेण नाहारयतीत्यर्थः, तत्र सिद्धिगमनस्य-सिद्धिगतेयः प्रापणलक्षणोऽर्थः प्राप्तिरित्यर्थः तस्य भावस्तत्ता तस्या इति, इह चैवं विशेपोपनयः-"जह सो चिलाइपुत्तो सुसुमगिद्धो अकज्जपडिबद्धो । धणपारद्धो पत्तो महाडविं वसणसयकलियं ॥१॥ तह जीवो विसयसुहे लुद्धो काऊण पावकिरियाओ । कम्मवसेणं पावइ भवाडवीए महादुक्खं ॥२॥ धणसेट्ठीविव गुरुणो पुत्ता इव साहवो भवो अडवी । सुयमंसमिवाहारो रायगिहं इह सिवं नेयं ॥३॥ जह अडविनयरनित्थरणपावणत्थं तएहिं सुयमंसं । भुत्तं तहेह साहू गुरूण आणाए आहारं ॥४॥ भवलंघणसिवपावणहेउं भुजंति ण उण गेहीए । वण्णबलरूबहेउं च भावियप्पा महासत्ता ॥५॥ [ यथा स चिलातिपुत्रः सुसुमागृद्धोऽकार्यप्रतिबद्धः धन्येन प्रारब्धः प्राप्तो महाटवीं व्यसनशतकलिताम् ॥१॥ तथा जीवो विषयसुखे लुब्धः कुखा पापक्रियाः । कर्मवशेन प्राप्नोति भवाटव्यां महादुःखम् ॥२॥ धनश्रेष्ठीव गुरवः पुत्रा इव साधवो भवोऽटवी । सुतामांसमिवाहारो राजगृहं इह शिवं ज्ञेयम् ॥३॥ यथाष्टवीनिस्तरणनगरप्रापणार्थ तैः
dan Education International
For Personal & Private Use Only
www.jainelibrary.org