________________
चउप्पयमियपसुपक्खिसिरीसवाणं घायाए वहाए उच्छायणयाए अधम्मकेऊसमुहिए'त्ति प्रतीतं नवरं घात:-प्रहारो वधोहिंसा व्यत्ययो वा उच्छादना-जातेरपि व्यवच्छेदनं तदर्थ 'अधर्मकेतुः' पापप्रधानः केतुः-ग्रहविशेषः स इव यः स तथा, द्विपदादिसत्त्वानां हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयं समुत्थित इति भावना, बहुनगरेषु निर्ग-18 तं-जनमुखानिःसृतं यशः-ख्यातिर्यस्य स तथा, सूरो-विक्रमी दृढप्रहारी-गाढप्रहारः, शब्दं लक्षीकृत्य विध्याले यः सः शब्दवेधी, चौरादीन्येकादश पदानि प्रतीतानि, नवरं ग्रन्थिभेदकाः-न्यासकान्यथाकारिणः घुर्घरकादिना वा ये ग्रन्थीन् |छिन्दन्ति, सन्धिच्छेदका ये गृहभित्तिसन्धीन् विदारयन्ति, क्षात्रखानका ये सन्धानवर्जितभित्तीः काणयन्ति, 'अणधारयंति ऋणं-व्यवहरकदेयं द्रव्यं तो तेषां धारयन्ति, खंडरक्षा-दण्डपाशिकाः, तथा छिन्ना-हस्तादिषु मिन्ना नासिकादौ बाहाः देशात् आहता-दण्डादिभिः ततो द्वन्द्वः, कुडंग-वंशादिगहनं तद्वयो दुर्गमखेन रक्षार्थमाश्रयणीयखसाधात् स तथा, 'नित्थाणं'ति स्थानभ्रष्टं 'अग्गअसिलढिगाहित्ति पुरस्तात् खड्गयष्टिग्राहः अथवा अय्यः-प्रधानः, 'अल्लचम्म दुरूहत्ति'ति आर्द्र चारोहति माङ्गल्यार्थमिति, 'माइय'त्ति ककारस्य स्वार्थिकखात् 'माई'सि रुक्षादिवालयुक्तखात् पक्ष्मलानि तानि च। तानि 'गोमुहीत्ति गोमुखवदुर प्रच्छादकलेन कृतानि गोमुखितानि चेति कर्मधारयस्ततस्तैः फलकैः-स्फुरकैः, अत्रार्थे वाचनान्तराण्यपि सन्ति तानि च विमर्शनीयानीति, गमनिकैवेयं, निकृष्टाभिः-कोशाद्वहिष्कृताभिरसियष्टिभिः असङ्गतैःस्कन्धावस्थितैस्तूणैः-शरभखादिभिः सजीवैः-कोट्यारोपितप्रत्यञ्चैर्द्धनुर्भिः समुत्क्षिप्तैः-निसर्गार्थमाकृष्टैः शरधेः सकाशाच्छरैःबाणैः 'समुल्लासियाहिंति प्रहरणविशेषाः 'ओसारियाहिंति प्रलम्बीकृताभिः ऊरुघंटाभिः-जवाघण्टाभिः 'छिप्पतूरेणं'ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org