________________
eoesesecevedeoeeeeeeeeeeeel
अस्यां चावस्थायां सकर्मकखात्तृतीयराश्यवस्थो भवति ॥ ११॥ किं च-'इह' असिन् मनुष्यभवे प्राप्तः सन् प्रव्रज्यामभ्युपेत्य |संवृतात्मा-यमनियमरतो जातः सन् पश्चादपापो भवति-अपगताशेषकर्मकलको भवतीति भावः, ततः स्वशासनं प्रज्वाल्य
मुक्त्यवस्थो भवति, पुनरपि स्वशासनपूजादर्शनानिकारोपलब्धेश्च रागद्वेषोदयात्कलुषितान्तरात्मा विकटाम्बुवद्-उदकवन्नीरजस्कं | सदातोद्धतरेणुनिवहसंपृक्तं सरजस्कं-मलिनं भूयो यथा भवति तथाऽयमप्यात्माऽनन्तेन कालेन संसारोद्वेगाच्छुद्धाचारावस्थो भूखा ततो मोक्षावाप्तौ सत्यामकर्मावस्थो भवति, पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीति, एवं त्रैराशिकानां राशित्रयावस्थों भवत्यात्मेत्याख्यातम् , उक्तं च-"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः खयं कृतभवश्च परार्थशूरस्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १॥" इति ॥ १२ ॥ अधुनैतद्दषयितुमाह
एताणुवीति मेधावी, बंभचेरेण ते वसे । पुढो पावाउया सवे, अक्खायारो सयं सयं ॥ १३ ॥
सए सए उवटाणे, सिद्धिमेव न अन्नहा । अहो इहेव वसवत्ती, सबकामसमप्पिए ॥ १४ ॥ _ 'एतान्' पूर्वोक्तान् वादिनोऽनुचिन्त्य 'मेधावी प्रज्ञावान् मर्यादाव्यवस्थितो वा एतदवधारयेत् यथा-नैते राशित्रयवादिनो | देवोप्तादिलोकवादिनच 'ब्रह्मचर्ये' तदुपलक्षिते वा संयमानुष्ठाने 'वसेयुः' अवतिष्ठेरनिति, तथाहि-तेषामयमभ्युपगमो यथा खदर्शनपूजानिकारदर्शनात्कर्मबन्धो भवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण वोभयेन वा भाव्यं, तत्संभवाच्च कर्मोप-18
Jain Educatio
n
al
For Personal & Private Use Only
Mw.jainelibrary.org