SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नया कष्टया युक्त्यसंगतया चाण्डपरिकल्पनया ?, एवमस्तिति चेत् तथा केचिदभिहितवन्तो यथा ब्रह्मणो मुखाड्राह्मणाः समजायन्त बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्भ्यां शूद्रा इति, एतदप्ययुक्तिसंगतमेव, यतो न मुखादेः कस्यचिदुत्पत्तिर्भवन्त्युपलक्ष्यते, अथापि स्यात्तका सति वर्णानामभेदः स्याद् , एकसादुत्पत्तेः, तथा ब्राह्मणानां कठतैत्तिरीयककलापादिकश्च भेदो न स्याद् , एकस्मान्मुखादुत्पत्तेः, एवं चोपनयनादिसद्भावो न भवेद , भावे वा खस्रादिग्रहणापत्तिः स्याद् , एवमाद्यनेकदोषदुष्टखादेवं लोकोत्पत्ति भ्युपगन्तव्या । ततश्च स्थितमेतत्-त एवंवादिनो लोकस्यानाद्यपर्यवसितस्योर्ध्वाधश्चतुर्दशरजुप्रमाणस्य वैशाख| स्थानस्थकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुखमल्लकाकारसप्तपृथिव्यात्मकाधोलोकस्य स्थालाकारासंख्येयद्वीपसमुद्राधारमध्यलोकस्य मल्लकसमुद्गकाकारोव॑लोकस्य धर्माधर्माकाशपुद्गलजीवात्मकस्य द्रव्यार्थतया नित्यस्य पर्यायापेक्षया क्षणक्षयिण उत्पादव्ययध्रौव्यापादितद्रव्यसतत्त्वस्यानादिजीवकर्मसंबन्धापादितानेकभवप्रपञ्चस्याष्टविधकर्मविप्रमुक्ताऽऽत्मलोकान्तोपलक्षितस्य तत्त्वमजानानाः सन्तो मृषा वदन्तीति ।। ९॥ इदानीमेतेषामेव देवोप्तादिवादिनामज्ञानिख प्रसाध्य तत्फलदिदर्शयिषयाऽऽह__ अमणुन्नसमुप्पायं, दुक्खमेव विजाणिया। समुप्पायमजाणंता, कहं नायंति संवरं ? ॥ १०॥ मनोनुकूलं मनोज्ञं शोभनमनुष्ठानं न मनोज्ञममनोज्ञम्-असदनुष्ठानं तसादुत्पादः-प्रादुर्भावो यस्य दुःखस्य तदमनोज्ञ| समुत्पादम् , एवकारोऽवधारणे, स चैवं संबन्धनीयः-अमनोज्ञसमुत्पादमेव दुःखमित्येवं 'विजानीयात्' अवगच्छेत्प्राज्ञः, एत| दुक्तं भवति-स्वकृतासदनुष्ठानादेव दुःखस्योद्भवो भवति नान्यस्मादिति, एवं व्यवस्थितेऽपि सति अनन्तरोक्तवादिनोऽसदनुष्ठानो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy