SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ह संघायणे य परिसाडणा य मीसे तहेव पडिसेहो । पडसंखसगडथूणाउद्दतिरिच्छादिकरणं च ॥७॥ संघातकरणम्-आतानवितानीभूततन्तुसंघातेन पटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्य निष्पादनं, संघातपरिसाटकरणं-शकटादेः, तदुभयनिषेधकरणं-स्थूणादेर्वतिरश्चीनाद्यापादनमिति ॥७॥ प्रयोगकरणमभिधाय विस्रसाकरणा| भिधित्सयाऽऽह खंधेसु दुप्पएसादिएसु अन्भेसु विजुमाईसु । णिफण्णगाणि व्वाणि जाण तं वीससाकरणं ॥८॥ विस्रसाकरणं साधनादिभेदाद्विधा,तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम् , अन्योऽन्यसमाधानाश्रयणाच्च सत्यप्यनादित्वे करणखाविरोधः, रूपिद्रव्याणां च द्वयणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धखापत्तिः सादिकं करणं, पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा-बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूप इति, तत्र बन्धः स्निग्धरूक्ष|त्वात् , गतिपरिणामो–देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामः-खण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव, खंडादिस्वरूपप्रतिपादकं चेदं गाथाद्वयम् , तद्यथा-'खंडेहि खंडभेयं पयरम्भेयं जहब्भपडलस्स । चुण्णं चुणियभेयं अणुतडियं वंसवक्कलियं ॥१॥ दुर्दुमि समारोहे भेए उक्केरिया य उक्करं । वीससपओगमीसगसंघायविओग १ विधिविपर्ययेऽन्यथाभावः विविधा गतिर्वा चू० । २ अचित्ता काचिद्विद्युदिति लक्ष्यतेऽनेन । ३ खण्डानां खण्डभेदः प्रतरभेदो यथाऽअपटलमा । चौर्षपूर्णि| तभेदोऽनुतटिका वंशवल्कलिका ॥१॥ शुष्कतडागे समारोहे भेदे उत्करिका चोत्कीर्णः । विधसाप्रयोगमिश्रसंघातवियोगतो विविधो गमः ॥२॥४बुंदंसीति काष्ठघटनो बुन्द इति वि०प०। । Jain Education Bonal For Personal & Private Use Only S a nelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy