SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Rekeseeeeeeeeeeeeeeeeeesex कारणपूर्वकखमात्रेण तु कार्य व्याप्तं, कार्यविशेषोपलब्धौ कारणविशेषप्रतिपत्तिर्गृहीतप्रतिबन्धस्यैव भवति, न चात्यन्तादृष्टे तथा प्रतीतिर्भवति, घटे तत्पूर्वकलं प्रतिपन्नमिति चेत् युक्तं तत्र घटस्य कार्यविशेषतप्रतिपत्तेः, न खेवं सरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकलेन संबन्धो गृहीत इति, नन्वत एव घटादिसंस्थानविशेषदर्शनवत्पर्वतादावपि विशिष्टसंस्थानदर्शनाद्बुद्धिमत्कारणपूर्वकवस्य | साधनं क्रियते, नैतदेवं युक्तं, यतो न हि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस बुद्धिमत्कारणपूर्वकखावगतिर्भवति, यदि तु स्यात् मृद्वि| कारखाद्वंल्मीकस्यापि घटवत्कुम्भकारकृतिः स्यात् , तथा चोक्तम्- "अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः कर णात्सिद्ध्येद्वल्मीकस्यापि तत्कृतिः॥१॥" इति, तदेवं यस्यैव संस्थानविशेषस्य बुद्धिमत्कारणपूर्वकलेन संबन्धो गृहीतस्तदर्शनमेव ४ तथाविधकारणानुमापकं भवति न संस्थानमात्रमिति, अपिच-घटादिसंस्थानानां कुम्भकार एव विशिष्टः कर्तोपलक्ष्यते नेश्वरः, यदि पुनरीश्वरः स्यात् किं कुम्भकारेणेति ?, नैतदस्ति, तत्रापीश्वर एव सर्वव्यापितया निमित्तकारणखेन व्याप्रियते, नन्वेवं दृष्टहानिरदृष्टकल्पना स्यात् , तथा चोक्तम्- "शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणलं न कल्प्यते ? ॥१॥" तदेवं दृष्टकारणपरित्यागेनादृष्टपरिकल्पना न न्याय्येति, 'अपिच-देवकुलावटादीनां यः कर्ता स सावयवोऽव्याप्यनित्यो दृष्टः, तदृष्टान्तसाधितश्चेश्वर एवंभूत एव प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद्व्याप्त्यसिद्धेर्नानुमानमिति, अनयैव दिशा स्थिखाप्रवृत्त्यादिकमपि साधनमसाधनमायोज्यं, तुल्ययोगक्षेमखादिति । यदपि चोक्तं 'प्रधानादिकृतोऽयं | लोक' इति, तदप्यसंगतं, यतस्तत्प्रधानं किं मूर्तममूर्त वा ?, यद्यमूर्त न ततो मकराकरादेमूर्तस्योद्भवो घटते, न ह्याकाशात्किञ्चिदुत्पद्यमानमालक्ष्यते, मूर्तामूर्तयोः कार्यकारणविरोधादिति, अथ मूर्त तत्कुतः समुत्पन्न?, न तावत्स्वतो लोकस्यापि तथोत्पत्ति JODSSSSSSSSSSSSSSS JainEducationKional For Personal & Private Use Only iww.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy