________________
| यार्थः ॥२-३॥ एवं दृष्टान्तमुपदर्य दार्शन्तिके योजयितुमाह-यथैतेऽनन्तरोक्ता मत्स्यास्तथा 'श्रमणा' श्राम्यन्तीति श्रमणा 'एके' शाक्यपाशुपतादयः स्वयथ्या वा, किंभूतास्ते इति दर्शयति-वर्तमानमेव सुखम्-आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानसुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवासक्तचेतसोऽनालोचिताधाकर्मोपभोगजनितातिकटुकदुःखौघानुभवा वैशालिकमत्स्सा इव 'घातं' विनाशम् 'एष्यन्ति' अनुभविष्यन्ति 'अनन्तशः' अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वति निमज्जनोन्मजनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः॥४॥ साम्प्रतमपराज्ञाभिमतोपप्रदर्शनायाह
इणमन्नं तु अन्नाणं, इहमेगेसि आहियं । देवउत्ते अयं लोए, बंभउत्तेति आवरे ॥५॥ ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ॥ ६॥ सयंभुणा कडे लोए, इति वुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासए ॥७॥ 'इद'मिति वक्ष्यमाणं, तुशब्दः पूर्वेभ्यो विशेषणार्थः, 'अज्ञान'मिति मोहविजृम्भणम्-'इह' अस्मिन् लोके एकेषां न सर्वेषाम् | | 'आख्यातम्'अभिप्रायः,किं पुनस्तदाख्यातमिति? तदाह-देवेनोप्तो देवोप्तः,कर्षकेणेव बीजवपनं कृखा निष्पादितोऽयं लोक इत्यर्थः, | देवैर्वा गुप्तो-रक्षितो देवगुप्तो देवपुत्रो वेत्येवमादिकमज्ञानमिति, तथा ब्रह्मणा उसो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः, तथाहि तेषामयमभ्युपगमः-ब्रह्मा जगत्पितामहः, स चैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति
dain Education international
For Personal & Private Use Only
www.jainelibrary.org