________________
७ नालन्दीयाध्य.
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४१४॥
eeeser eeeeeeeeeee
संख्यान पुत्रानिति, तत एकविमोक्षणेनात्मानं कृतार्थमिव मन्यमानः स्थितोऽसौ, एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृह्णत-1 स्तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिलेशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमतिप्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ?, यदेव व्रतं गृहीत्वा यानेव सत्त्वान् बादरान् संकल्पजप्राणिवधनिवृत्त्या रक्षति तन्नि-| मित्तः कुशलानुबन्ध एवेत्येतत्सूत्रेणैव दर्शयितुमाह-'तसेहि मित्यादि, त्रस्यन्तीति त्रसाः-द्वीन्द्रियादयस्तेभ्यः सकाशानिधाय निहाय वा परित्यज्येतियावत् के ?-दण्डयतीति दण्डस्तं परित्यज्य, त्रसेषु प्राणातिपातविरतिं गृहीत्वेत्यर्थः, 'तदपि च त्रसप्राणा| तिपातविरमणव्रतं 'तेषां देशविरतानां कुशलहेतुत्वात्कुशलमेव भवति ॥ यच्च प्रागभिहितं, तद्यथा-तमेव त्रसं स्थावरपर्यायापन्नं नागरकमिव बहिःस्थं व्यापादयतोऽवश्यंभावी व्रतभङ्ग इत्येतत् परिहतुकाम आह
तसावि वुचंति तसा तससंभारकडेणं कम्मुणा णामं च णं अन्भुवगयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायट्टिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायंति । थावरावि वुचंति थावरा थावरसंभारकडेणं कम्मुणा णामं च णं अन्भुवगयं भवइ, थावराउयं च णं पलिक्खीणं भवइ, थावरकायट्ठिया ते तओ आउयं विप्पजहंति तओ आउयं विप्पजहित्ता भुजो परलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति, ते तसावि बुचंति, ते महाकाया ते चिरहिइया ॥ (सूत्रं ७६) 'त्रसा अपि' द्वीन्द्रियादयोऽपि त्रसा इत्युच्यन्ते च त्रसाः त्रससंभारकृतेन कर्मणा भवन्ति, संभारो नामावश्यतया कर्मणो
eeeeeeeeeeeeeeeeeeeeesese
॥४१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org