SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ त्सर्वात्म ना तत्र विद्यते, असाकं च द्रव्यपर्यायोभयवादिना कारणे कार्य द्रव्यात्मतयां विद्यते न पर्यायात्मकतया, अपिच-असाकमुत्पादव्ययध्रौव्ययुक्तमेव सदित्युच्यते, भवतां तु ध्रौव्ययुक्तमेव सदिति, यावया विर्भावतिरोभावौ भवतोच्येते तावपि नोत्पादविनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मिकचिन्तायामावयोन कथञ्चित्साम्यं । किंच-सर्वव्यापिले सत्यात्मनामविकारिखे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यङ्नरामरभेदेन बालकुमारसुभगदुर्भगाढ्यदरिद्रादिभेदेन वा न मीयेरन्न परिच्छिोरन् , नापि स्वकर्मचोदिता नानागतिषु संसरन्ति, सर्वव्यापिखादेकखाद्वा, तथा न ब्राह्मणा न क्षत्रिया न वैश्या न प्रेष्या-न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाश्चेत्येवं नानागतिभेदेन न भिधेरन् , अतोन | सर्वव्यापी आत्मा, नाप्यात्माद्वैतवादो ज्यायान् , यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरखपर्यन्तमात्र एवात्मा, तत्रैव तद्गुणविज्ञानोपलब्धेरिति स्थितम् , तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञप्रणीतखाद्, असर्व-19 ज्ञप्रणीतखं चैकान्तपक्षसमाश्रयणादिति ॥ ४९ ॥ एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाह लोयं अयाणित्तिह केवलेणं, कहंति जे धम्ममजाणमाणा । णासंति अप्पाण परं च णट्ठा, संसार घोरंमि । अणोरंपारे ॥४९॥ लोयं विजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता। धम्म समत्तं च कहंति जे उ, तारंति अप्पाण परं च तिन्ना ॥५०॥ 'लोक' चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञासा केवलेन दिव्यज्ञानावभासेन 'इह' असिन् जगति ये तीथिका 'अजानाना' अविद्वांसो 'धर्म' दुर्गतिगमनमार्गस्यार्गलाभूतं 'कथयन्ति' प्रतिपादयन्ति ते खतो नष्टा अपरानपि नाशयन्ति, क ? Jain Education Inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy