SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ आर्द्रकाध्ययन. सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाश्रीयावृत्तिः ॥४०॥ शालकाजीवकबौद्धमतमभिसमीक्ष्य साम्प्रतं द्विजातयः प्रोचुः, तद्यथा-भो आर्द्रककुमार! शोभनमकारि भवता यदेते वेदबाह्ये द्वे | अपि मते निरस्ते, तत्साम्प्रतमेतदप्याहतं वेदवाह्यमेवातस्तदपि नाश्रयणाहं भवद्विधानां, तथाहि-भवान् क्षत्रियवरः, क्षत्रियाणां च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्या न शूद्राः, अतो यागादिविधिना ब्राह्मणसेवैव युक्तिमतीत्येतत्प्रतिपादनायाहसिणायगाणं तु दुवे सहस्से, जे भोयए णियए माहणाणं । ते पुन्नखंधे सुमहऽजणित्ता, भवंति देवा इति वेयवाओ॥ ४३ ॥ सिणायगाणं तु दुवे सहस्से, जे भोयए णियए कुलालयाणं । से गच्छति लोलुवसंपगाढे, तिघाभितावी णरगाभिसेवी ॥४४॥ दयावरं धम्म दुगुंछमाणा, वहावहं धम्म पसंसमाणा। एगंपि जे बोययती असीलं, णिवो णिसं जाति कुओ सुरेहिं ? ॥४५॥ दुहओवि धम्ममि समुट्ठियामो, अस्सिं सुट्टिच्चा तह एसकालं । आयारसीले वुइएह नाणी, ण संपरायंमि विसेसमत्थि ॥ ४६॥ तुशब्दो विशेषणार्थः, षट्कर्माभिरता वेदाध्यापकाः शौचाचारपरतया नित्यं स्नायिनो ब्रह्मचारिणः स्नातकास्तेषां सहस्रद्वयं | नित्यं ये भोजयेयुः कामिकाहारेण ते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः स्वर्गनिवासिनो भवन्तीत्येवंभूतो वेदवाद इति ॥४३॥ अधुनाऽऽककुमार एतद्दूषयितुमाह-'सिणायगाणं तु'इत्यादि, स्नातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किंभूतानां ?कुलानि-गृहाण्यामिषान्वेषणार्थिनो नित्यं येष्टन्ति ते कुलाटाः-मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा-कुलानिक्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतकुकाणामालयो येषां ते कुलालयास्तेषां-निन्धजीविकोपगतानामेवंभूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु । किंभूतः सन् ?-'लोलुपै.' आमिषगृ? ॥४०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy