SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ सोऽनिष्टमपि स्वपरात्मनोर्निरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कथं खपरात्मनोर्निरुपकारकमेवं कुर्यात्, तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचितकारी, न परानुरोधान्नापि गौरवाद्धर्मदेशना - दिकं विधत्ते अपितु यदि कस्यचिद्भव्य सत्त्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति नान्यथा, तथा न राजाभियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्तते, ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्कचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण 'न च' नैव व्यागृणीयाद्, यदिवाऽनुत्तरसुराणां मनःपर्यायज्ञानिनां च द्रव्यमनसैव तन्निर्णयसंभवादतो न व्यागृणीयादित्युच्यते । यदप्युच्यते भवता - यदि वीतरागोऽसौ किमिति धर्मकथां करोतीति चेदित्याशङ्कयाह- 'खकामकृत्येन खेच्छाचारिकारितयाऽसावपि तीर्थकुन्नामकर्मणः क्षपणाय न यथाकथंचिद्, अतोऽसावग्लान: 'इह' अस्मिन्संसारे आर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनां तदुपकाराय धर्मदेशनां व्यागृणीयादसाविति ॥ १७ ॥ किंचान्यत्- 'गंते' त्यादि, स हि भगवान् परहितैकरतो गत्वापि विनेयासन्नमथवाऽप्यगला यथा यथा भव्यसत्त्वोपकारो भवति तथा तथा भगवन्तोऽर्हन्तो धर्मदेशनां विद्धति, उपकारे सति गखाऽपि कथयन्त्यसति तु स्थिता अपि न कथयन्तीत्यतो न तेषां रागद्वेषसंभव इति, केवलमाशुप्रज्ञ - सर्वज्ञ : 'समतया' समदृष्टितया चक्रवर्तिद्रमकादिषु पृष्टोऽपृष्टो वा धर्म व्यागृणीयात् 'जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई' इति वचनादित्यतो न रागद्वेषसद्भावस्तस्येति । यत्पु| नरनार्यदेशमसौ न व्रजति तत्रेदमाह-अनार्याः क्षेत्र भाषाकर्मभिर्वहिष्कृता दर्शनतोऽपि परि-समन्तादिताः - गताः प्रभ्रष्टा इति| यावत् । तदेवमसौ भगवानित्येतत्तेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न व्रजतीति । यदिवा - अविपरीत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy