________________
सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः
॥ ३८९ ॥
सिकताकवलवन्निरास्वादं यावज्जीवं कर्तुमलम् अतो मां विहायायं बहून् शिष्यान् प्रतायैवंभूतेन स्फटाटोपेन विहरतीत्यतः कर्तव्ये 'अस्थिरः' चपलः, पूर्वचर्यापरित्यागेनापरकल्प समाश्रयात्, एतदेव दर्शयति – 'सभायां गतः' सदेवमनुजपर्षदि व्यवस्थितो 'गणओ' ति गणशो बहुशोऽनेकश इतियावत् भिक्षूणां मध्ये 'गतो' व्यवस्थित आचक्षाणो बहुजनेभ्यो हितः अर्थो बहुजन्योऽर्थस्तमर्थ बहुजन हितं कथयन् विहरति एतच्चास्यानुष्ठानं पूर्वापरेण न संधत्ते, तथाहि - यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलचामरादिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तन्येकचर्या क्लेशबहुलाऽनेन कृता सा क्लेशाय केवलमस्येति, यदि सा कर्मनिर्जरणहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोः - मौनत्र ति कधर्म देशनारूपयोः परस्परतो विरोध इति ॥ २ ॥ अपिच - यद्येकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात् ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम्, अथ चेदं साम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावप्याचरणीयमासीद्, अपिच द्वे अप्येते छायातपवद्त्यन्त विरोधिनी वृत्ते नैकत्र समवायं गच्छतः, तथा यदि मौनेन धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना १, अथानयैव धर्मस्ततः किमिति पूर्व मौनव्रतमनेनाललम्बे ?, यस्मादेवं तस्मात्पूर्वोत्तरव्याहतिः । तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाहपुचि इहि च अणागतं वा, एगंतमेवं पडिसंधयाति ॥ ३ ॥ समिच्च लोगं तसथावराणं, खेमंकरे समणे माहणे वा । आइक्खमाणोवि सहस्समझे, एगंतयं सारयती तहच्चे ||४|| धम्मं कहंतस्स उ णत्थि दोसो, खंतस्स दंतस्स जितिंदियस्स । भासाय दोसे य विवज्जगस्स, गुणे य भासाय णिसेवगस्स ॥ ५ ॥ महवए पंच अणुवए य, तहेव पंचासव संवरे य। विरतिं इहस्सामणियंमि पन्ने, लवावसक्की समणेत्तिबेमि ॥ ६ ॥ सूत्रं
Jain Education International
For Personal & Private Use Only
६ आर्द्रका
ध्ययन.
॥३८९॥
www.jainelibrary.org