________________
छेदनभेदनादिके व्यापारे वर्तते न तस्यावा, तस्य कर्मोपचयो न भवतीत्यर्थः, तथा 'अबुधः' अजानानः कायव्यापारमात्रेण यं च | हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति, अनेन च श्लोकार्थेन यदुक्तं नियुक्तिकृता यथा-'चतुर्विधं कर्म नोप|चीयते भिक्षुसमय' इति, तत्र परिज्ञोपचितमविज्ञोपचिताख्यं भेदद्वयं साक्षादुपातं, शेषं खीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपात्तं, तोरणमीर्या-गमनं तत्संबद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम् , एतदुक्तं भवति-पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्राणिव्यापादनं भवति तेन कर्मणश्चयो न भवति, तथा स्वप्नान्तिकमिति-स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्वमान्तिकं, तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति ?, | | उच्यते, यद्यसौ हन्यमानः प्राणी भवति हन्तुश्च यदि प्राणीत्येवं ज्ञानमुत्पद्यते तथैनं हन्मीत्येवं च यदि बुद्धिः प्रादुष्ष्याद् | | एतेषु च सत्सु यदि कायचेष्टा प्रवर्तते तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यत| राभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेष्वेकत्रिंशत्व| हिंसकः, तथा चोक्तम्-"प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥१॥"
किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव ?, भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चाधेमाह-'पुट्ठो'त्ति 18| तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा | | 'स्पृष्ट' ईपच्छुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति, न तस्याधिको विपाकोऽस्ति, कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः, अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति । एवं च कृखा तद् 'अव्यक्तम्' अपरिस्फुटं,
eeeeeeeeeeeeeeeeeeeeeee
Jain Education
anal
For Personal & Private Use Only
INMainelibrary.org