________________
keeseseakseseenecesesesesesesea
वीरिय'मित्यादि, 'सर्व सर्वत्र विद्यत इतिहखा सांख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानस्यैकखात्तस्य च सर्वस्यैव कारणखात | अतः सर्व सर्वात्मकमित्येवं व्यवस्थिते 'सर्वत्र' घटपटादौ अपरस्य-व्यक्तस्य 'वीर्य' शक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकायखात्कार्यकारणयोश्चैकखाद्, अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवं संज्ञां नो निवेशयेत् , तथा 'सर्वे भावाः स्वभावेन, स्वस्वभावव्यवस्थिता'इति प्रतिनियतशक्तिखान सर्वत्र सर्वस्य 'वीर्य'शक्तिरित्येवमपि संज्ञां नो निवेशयेत् । युक्तिश्चात्र-यत्तावदुच्यते 'सांख्याभिप्रायेण सर्व सर्वात्मकं देशकालाकारप्रतिबन्धात्तु न समानकालोपलब्धि'रिति, तदयुक्तं, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नमू
क्ष्मवादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, न च दृष्टेऽनुपपन्नं नाम, न च सर्व मिथ्येत्यभ्युपपत्तुं युज्यते, यतो दृष्टहा& निरदृष्टकल्पना च पापीयसी । किंच-सर्वथैक्येऽभ्युपगम्यमाने संसारमोक्षामावतया कृतनाशोऽकृताभ्यागमश्च बलादापतति,
यच्चैतत् सत्वरजस्तमसां साम्यावस्था प्रकृतिःप्रधानमित्येतत्सर्वस्यास्य जगतः कारणं तन्निरन्तराः सुहृदःप्रत्येष्यन्ति, नियुक्तिकखाद्, अपिच-सर्वथा सर्वस्य वस्तुन एकवेऽभ्युपगम्यमाने सत्वरजस्तमसामप्येकवं स्यात् , तद्भेदे च सर्वस्य तद्वदेव भेद इति । तथा यदप्युच्यते-'सर्वस्य व्यक्तस्य प्रधानकार्यखात्सत्कार्यवादाच्च मयूराण्डकरणे चञ्चपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादे चाम्रफलादीनामप्युत्पत्तिप्रसङ्गादित्येतद्वामात्रं, तथाहि-यदि सर्वथा कारणे कार्यमस्ति न त त्पादो निष्पन्नघटस्येव, अपिच मृत्पिण्डा|वस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना विद्यते, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतां मृत्पिण्डादेर्घटादेरिवोत्पत्तिः स्यात् , न चैतह
१ कार्यस्य । २ शक्तयः । ३ खरूपेण । ४ वखाधारपदार्थेषु । ५ पपन्नं प्र० ।
299280920000000000000000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org