SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ न्ते-एतैरुपभोगं ये कुर्वन्ति 'अन्योऽन्यं' परस्परं तान् स्वकीयेन कर्मणोपलिप्तान विजानीयादित्येवं नो वदेत् , तथाऽनुपलिप्तानिति वा नो वदेत् , एतदुक्तं भवति-आधाकापि श्रुतोपदेशेन शुद्धमितिकृखा भुञ्जानः कर्मणा नोपलिप्यते, तदाधाकर्मोपभोगेनावश्यतया कर्मबन्धो भवतीत्येवं नो वदेत् , तथा श्रुतोपदेशमन्तरेणाहारगृध्याऽऽधाकर्म भुञ्जानस्य तनिमित्तकर्मबन्धसद्भावात् | अतोऽनुलिप्तानपि नो वदेत् , यथावस्थितमौनीन्द्रागमज्ञस्य खेवं युज्यते वक्तुम्-आधाकर्मोपभोगेन स्यात्कर्मबन्धः स्यान्नेति, यत 18 उक्तम्-"किंचिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजायं वा॥१॥" तथाऽन्यैरप्य भिहितम्-"उत्पद्येत हि साऽवस्था, देशकालामयान्प्रति । यस्यामकार्य कार्य स्यात्कर्म कार्य च वर्जयेद् ॥१॥"इत्यादि ॥८॥ किमि| त्येवं स्याद्वादः प्रतिपाद्यत इत्याह-आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावाभाव-18 | भूतयोर्व्यवहारो न विद्यते, तथाहि-यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि कचित्सु| तरामनर्थोदयः स्यात् , तथाहि-क्षुत्पपीडितो न सम्यगीर्यापथं शोधयेत् ततश्च वजन् प्राण्युपमईमपि कुर्यात् मूर्छादिसद्भाव| तया च देहपाते सत्यवश्यंभावी त्रसादिव्याघातोऽकालमरणे चाविरतिरङ्गीकृता भवत्यार्तध्यानापत्तौ च तिर्यग्गतिरिति, आगमश्च| "सवत्थ संजमं संजमाओ अप्पाणमेव रक्खेज्जा"इत्यादिनापि तदुपभोगे कर्मबन्धाभाव इति, तथाहि-आधाकर्मण्यपि निष्पा| यमाने षड्जीवनिकायवधस्तद्वधे च प्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यवहरणं व्यवहारो न युज्यते, तथा |अभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् ॥९॥ पुनरप्यन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाह १ सर्वत्र संयम संयमादात्मानमेव रक्षेत् । eceaeeeeeeeeeeeeeeeer Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy