SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ 'पिया'त मुष्टिलोष्टादिप्रहारेण तथा 'तथाविधपरितापनतया' बहिरन्तश्च पीडया, ते चासंज्ञिनोऽपि यद्यपि देशकालखभावविप्रकृष्टानां न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावात्तद्योग्यतया दुःखपरितापक्लेशादेरप्रतिविरता भवन्ति तत्सद्भा वाच्च तत्प्रत्ययिकेन कर्मणा वध्यन्ते । तदेवं विप्रकृष्टविषयमपि कर्मबन्धं प्रदर्योपसंजिहीर्षुराह - इतिरुपप्रदर्शने खलुशब्दो वाक्यालङ्कारे विशेषणे वा, किं विशिनष्टि ? – ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषां न तर्को न संज्ञा न प्रज्ञा न मनो न वाकू न स्वयं कर्तुं नान्येन कारयितुं न कुर्वन्तमनुमन्तुं वा प्रवृत्तिरस्ति, ते चाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डा दुःखोत्पादनयावत्परितापन परिक्लेशादेरप्रतिविरता असंज्ञिनोऽपि सन्तोऽहर्निशं सर्वकालमेव प्राणातिपाते कर्तव्ये तद्योग्यतया तदसंप्राप्तावपि ग्रामघातकवदुपाख्यायन्ते यावन्मिथ्यादर्शनशल्य उपाख्यायन्त इति, उपाख्यानं चासंज्ञिनोऽपि योग्यतया पापकर्मानिवृत्तेरित्यभिप्रायः । तदेवं दर्शिते दृष्टान्तद्वये तत्प्रतिबद्धमेवार्थशेषं प्रतिपादयितुं चोद्यं क्रियते, तद्यथाकिमेते सत्त्वाः संज्ञिनोऽसंज्ञिनश्च भव्याभव्यत्ववन्नियतरूपा एवाहोखित्संज्ञिनो भूत्वाऽसंज्ञित्वं प्रतिपद्यन्ते असंज्ञिनोऽपि संज्ञितमित्येवं चोदिते सत्याहाचार्य :- 'सङ्घजोणियावि खलु' इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनो य एवं प्रतिपादयन्ति - 'पुरुषः पुरुषत्वमश्रुते पशुरपि पशुल' मिति, तदत्रापि संज्ञिनः संज्ञिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंज्ञिन इति, तन्मतव्यवच्छेदार्थमाह'सव्वजोणियावी' त्यादि, यदिवा किं संज्ञिनोऽसंज्ञिकर्मबन्धं प्राक्तने सत्येव कर्मणि कुर्वन्ति किंवा नेत्येवमसंज्ञिनोऽपि संज्ञिकर्मबन्धं प्राक्तने सत्येव कुर्वन्त्याहोखिन्नेत्येतदाशङ्कयाह - 'सबजोणियावी' त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतो१ संज्ञिसमुष्चयाय । २ अप्रतिविरततासद्भावात् । ३ संज्ञित्वावाप्तौ यद्वद्धं तस्मिन् वेद्यादिके । यद्वा संज्ञित्वावाप्तिनिमित्ते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy