________________
अंधो अंधं पहं णितो, दूरमद्धाणु गच्छइ । आवजे उप्पहं जंतू, अदुवा पंथाणुगामिए ॥ १९॥ | यथा अन्धः स्वयमपरमन्धं पन्थानं नयन् 'दूरमध्वानं' विवक्षितादध्वनः परतरं गच्छति, तथोत्पथमापद्यते जन्तुरन्धः, अथवा || परं पन्थानमनुगच्छेत् , न विवक्षितमेवाध्वानमनुयायादिति ॥ १९ ॥ एवं दृष्टान्तं प्रसाध्य दार्शन्तिकमर्थ दर्शयितुमाह
एवमेगे णियायट्ठी, धम्ममाराहगा वयं । अदुवा अहम्ममावजे, ण ते सबजुयं वए ॥ २०॥
'एव'मिति पूर्वोक्तार्थोपप्रदर्शने, एवं भावमूढा भावान्धाश्चैके आजीविकादयः 'नियायट्ठीति नियागो-मोक्षः सद्धर्मों वा तदपार्थिनः, ते किल वयं सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्दैन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तस्तत्खयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति येनाभिप्रेताया मोक्षावाप्तेभ्रंश्यन्ति, अथवाऽऽस्तां तावन्मोक्षाभावः, त एवं प्रवर्तमाना 'अधर्म' पापमापोरन् , संभावनायामुत्पन्नेन लिङ्प्रत्ययेनैतद्दर्शयति एतदपरं तेषामनन्तरं संभाव्यते | | यदुत विवक्षितार्थाभावतया विपरीतार्थावाप्तेः पापोपादानमिति । अपिच–त एवमसदनुष्ठायिन आजीविकादयो गोशालकमतानु| सारिणोऽज्ञानवादप्रवृत्ताः सर्वैः प्रकारैर्ऋजुः-प्रगुणो विवक्षितमोक्षगमनं प्रत्यकुटिलः सर्वर्जुः-संयमः सद्धर्मों वा तं सर्वर्जुकं ते 'न व्रजेयुःन प्राप्नुयुरित्युक्तं भवति, यदिवा-सर्वर्जुकं-सत्यं तत्तेऽज्ञानान्धा ज्ञानापलापिनो न वदेयुरिति । एते चाज्ञानिकाः सप्तपष्टिभेदा भवन्ति, ते च भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथा-जीवादयो नव पदार्थाः, सत् असत् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते, न च विज्ञातैः प्रयोजनमस्ति, भावना
eeeeeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org