SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ वाय-वाणी कायो-देहः अर्थप्रतिपादकं पदसमूहात्मकं वाक्यमेकतिङ् सुबन्तं वा, तत्र वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वाद्यत्पुन क्यग्रहणं करोति तदेवं ज्ञापयति-इह वाग्व्यापारस्य प्रचुरतया प्राधान्यं, प्रायशस्तत्प्रवृत्त्यैव प्रतिषेधविधानयोरन्येषां प्रवर्त्तनं भवति, तदेवमप्रत्याख्यानाक्रियः सन् आत्माऽविचारितमनोवाकायवाक्यश्चापि भवतीति, तथा प्रतिहतं-प्रतिस्खलितं प्रत्याख्यातंनिराकृतं विरतिप्रतिपच्या पापकर्म-असदनुष्ठानं येन स प्रतिहतप्रत्याख्यातपापकर्मा तत्प्रतिषेधादसदनुष्ठानपरश्चात्मा भवतीति । | तदेवमेष-पूर्वोक्तोऽसंयतोऽविरतो प्रतिहतप्रत्याख्यातपापकर्मा सक्रियः ससावद्यानुष्ठानः, तथाभूतश्चासंवृतो मनोवाक्कायैरगुप्तोऽगुतखाचात्मनः परेषां च दण्डहेतुखाद्दण्डः, तदेवंभूतश्च सन् एकान्तेन बालवद्धालः सुप्तवदेकान्तेन सुप्तः, तदेवंभूतश्च बालसुप्ततया विचाराणि-अविचारितरमणीयानि परमार्थविचारणया युक्त्या वा विघटमानानि मनोवाकायवाक्यानि यस्य स तथा, यदिवा परसंबन्ध्यविचारितमनोवाकायवाक्यः सन् क्रियासु प्रवर्तते, तदेवंभूतो निर्विवेकतया पटुविज्ञानरहितः स्वप्नमपि न पश्यति, तस्य | चाव्यक्तविज्ञानस्य स्वप्नमप्यपश्यतः पापं कर्म बध्यते, तेनैवंभूतेनाव्यक्तविज्ञानेनापि पापं कर्म क्रियत इति भावः ॥ तत्र चैवं व्यवस्थिते चोदकः प्रज्ञापकमेवमवादीत्-अत्र चाचार्याभिप्रायं चोदकोऽनूद्य प्रतिषेधयति तत्थ चोयए पन्नवगं एवं वयासि-असंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयकायवक्कस्स सुविणमवि अपस्सओ पावकम्मे णो कज्जइ, कस्स णं तं हेउं ?, चोयए एवं बवीति-अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कजइ, अन्नयरीए वतिए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं काएणं पावएणं कायवत्तिए पावे कम्मे dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy