SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जावमक्खायं ॥ ( सूत्रं ५९) अथानन्तरमेतद्वक्ष्यमाणं 'पुरा' पूर्वमाख्यातं, 'इह' अस्मिन् जगत्येके सवास्तथाविधकर्मोदयाद् नानाविधयोनिकाः सन्तो यावकर्मनिदानेन 'तत्र' तस्मिन्यातयोनिकेऽपूकाये 'व्युत्क्रम्य' आगत्य 'नानाविधानां' बहुप्रकाराणां 'सानां दर्दुरप्रभृतीनां 'स्थावराणां च हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदप्कायशरीरं वातयोनिकखादप्कायस्य वायुनोपादानकारणभूतेन सम्यक 'संसिद्धं निष्पादितं तथा वातेनैव सम्यग् गृहीतमभ्रकपटलान्तनिवृत्तं तथा वातेनान्योऽन्यानुगतखात्परिगतं तथोर्ध्वगतेषु वातेपूर्वभागी भवत्यप्कायो, गगनगतवातवशादिवि संमूर्च्छते जलं, तथाऽधस्ताद्गतेषु वातेषु तद्वशाद्भवत्यधोभागी अपकायः, एवं तिर्यग्गतेषु वातेषु तिर्यग्भागी भवत्यप्कायः, इदमुक्तं भवति वातयोनिकखादप्कायस्य यत्र यत्रासौ तथाविधपरिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतं जलमपि संमूर्च्छते, तस्य चाभिधानपूर्वकं भेदं दर्शयितुमाह-तद्यथा'ओस'त्ति अवश्यायः 'हिमयेति शिशिरादौ वातेरिता हिमकणा महिकाः-धूमिकाः करकाः-प्रतीताः 'हरितणुय'त्ति तृणाग्रव्यवस्थिता जलबिन्दवः शुद्धोदक-प्रतीतमिति । 'इह' अस्मिन्बुदकप्रस्तावे एके सवास्तत्रोत्पद्यन्ते खकर्मवशगास्तत्रोत्पन्नास्ते जीवास्तेषां नानाविधानां त्रसस्थावराणां खोत्पत्याधारभूतानां स्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारका न भवन्तीत्यर्थः, शेष सुगम यावदेतदाख्यातमिति ॥ तदेवं वातयोनिकमप्कायं प्रदर्याधुनाप्कायसंभवमेवाएकार्य दर्शयितुमाहअथापरमाख्यातं 'इह' असिन् जगति उदकाधिकारे वा एके सच्चास्तथाविधकर्मोदयाद्वातवशोत्पनत्रसस्थावरशरीराधारमुदकं Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy