SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ राहारेण वृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमत्वेनोत्पद्यन्ते, ते च जीवा जलचरा गर्भाद्वयुत्क्रान्ताः सन्तस्तदनन्तरं यावद् 'डहर'त्ति लघवस्तावदप्रहम् - अप्कायमेवाहारयन्ति आनुपूर्व्येण च वृद्धाः सन्तो वनस्पतिकार्य तथाऽपरांश्च त्रसान् | स्थावरांचाहारयन्ति यावत्पञ्चेद्रियानप्याहारयन्ति, तथा चोक्तम्- “अस्ति मत्स्यस्तिमिर्नाम, शतयोजनविस्तरः । तिमिङ्गिल| गिलोऽप्यस्ति, तद्भिलोऽप्यस्ति राघव ! ।। १ ।। " तथा ते जीवाः पृथिवीशरीरं - कर्दमखरूपं क्रमेण वृद्धिमुपगताः सन्त आहा| रयन्ति, तच्चाहारितं सत्समानरूपी कृतमात्मसात्परिणामयन्ति, शेषं सुगमं यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् ॥ साम्प्रतं | स्थलचरानुद्दिश्याह- 'अहावर 'मित्यादि, अथापरमेतदाख्यातं नानाविधानां चतुष्पदानां तद्यथा - एकखुराणामित्यश्वखरादीनां तथा द्विखुराणां - गोमहिष्यादीनां तथा गण्डीपदानां - हस्तिगण्डकादीनां तथा सनखपदानां - सिंहव्याघ्रादीनां यथावीजेन यथाव| काशेन सकलपर्याप्तिमवाप्योत्पद्यन्ते ते चोत्पन्नाः सन्तस्तदनन्तरं मातुः स्तन्यमाहारयन्तीति, क्रमेण च वृद्धिमुपगताः सन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं यावत्कर्मोपगता भवन्तीति । साम्प्रतमुरः परिसर्पानुद्दिश्याह- 'नानाविधानां' बहुप्रकाराणामुरसा ये प्रसर्पन्ति तेषां तद्यथा - अहीनामजगराणामाशालिकानां महोरगाणां यथाबीजखेन यथावकाशेन चोत्पत्त्याऽण्डजलेन | पोतजखेन वा गर्भान्निर्गच्छन्तीति । ते च निर्गता मातुरूष्माणं वायुं चाहारयन्ति तेषां च जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव वृद्धिरुपजायते, शेषं सुगमं यावदाख्यातमिति । साम्प्रतं भुजपरिसर्पानुद्दिश्याह - नानाविधानां भुजाभ्यां ये परिसर्पन्ति तेषां, तद्यथा - गोधानकुलादीनां स्वकर्मोपात्तेन यथावीजेन यथावकाशेन चोत्पत्तिर्भवति, ते चाण्डजखेन पोतजखेन चोत्पन्नास्तदनन्तरं | मातुरूष्मणा वायुना चाऽऽहारितेन वृद्धिमुपयान्ति, शेषं सुगमं यावदाख्यातमिति । साम्प्रतं खचरानुद्दिश्याह- नानाविधानां Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy