________________
यथा म्लेच्छः अम्लेच्छस्य परमार्थमजानानः केवलं तद्भाषितमनुभाषते, तथा 'अज्ञानिकाः सम्यग्ज्ञानरहिताः श्रमणा ब्राह्मणा वदन्तोऽपि स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणात् निश्चयार्थ न जानन्ति, तथाहि ते खकीय तीर्थकर सर्वज्ञत्वेन निर्झर्य तदुपदेशेन क्रियासु प्रवर्तेरन् , न च सर्वज्ञविवक्षा अर्वाग्रदर्शिना ग्रहीतुं शक्यते, 'नासर्वज्ञः सर्वज्ञं जानातीति न्यायात् , तथा चोक्तम्-"सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥१॥"
एवं परचेतोवृत्तीनां दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणासंभवान्निश्चयार्थमजानाना म्लेच्छवदपरोक्तमनुभाषन्त एव, RI 'अबोधिका' बोधरहिताः केवलमिति, अतोऽज्ञानमेव श्रेय इति । एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्तावद्गुरुतरदोषसंभवः,
तथाहि-योऽवगच्छन् पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तसै न कश्चिदपराध्य| तीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ॥ १६ ॥ एवमज्ञानवादिमतमनूचेदानीं तदूषणायाहअन्नाणियाणं वीमंसा, अण्णाणे ण विनियच्छइ । अप्पणो य परं नालं, कुतो अन्नाणुसासिउं? ॥१७॥8
न ज्ञानमज्ञानं तद्विद्यते येषां तेज्ञानिनः, अज्ञानशब्दस्य संज्ञाशब्दखाद्वा मत्वर्थीयः,गौरखरवदरण्यमिति यथा, तेषामज्ञानिनाम् |-अज्ञानमेव श्रेय इत्येवंवादिनां, योऽयं विमर्शः पर्यालोचनात्मको मीमांसा वा-मातुं परिच्छेत्तुमिच्छा सा 'अज्ञाने' अज्ञान18| विषये 'न णियच्छति' न निश्चयेन यच्छति-नावतरति, न युज्यत इतियावत्, तथाहि-यैवंभूता मीमांसा विमर्शो वा किमेत-18
ज्ज्ञानं सत्यमुतासत्यमिति ?, यथा अज्ञानमेव श्रेयो यथा यथा च ज्ञानातिशयस्तथा तथा च दोषातिरेक इति सोऽयमेवंभूतो विमर्श
392000000000290920ca
Jain Education inte
For Personal & Private Use Only
ww.jainelibrary.org