________________
णियवाईणं वेणइयवाणं, तेऽवि परिनिवाणमाहंसु, तेऽवि मोक्खमाहंसु तेऽवि लवंति, सावगा ! तेऽवि लवंति सावइत्तारो ॥ सूत्रम् ४० ॥
'एवमेव' संक्षेपेण 'सम्यगनुगम्यमाना' व्याख्यायमानाः सम्यगनुगृह्यमाणाः 'अनयोरेव' धर्माधर्मस्थानयोरनुपतन्ति । किमिति १, यतो यदुपशान्तस्थानं तद्धर्मपक्षस्थानमनुपशान्तस्थानमधर्मपक्षस्थानमिति । तत्र च यदधर्मपाक्षिकं प्रथमं स्थानं तत्रा - मूनि त्रीणि त्रिषष्ट्यधिकानि प्रावादुकशतान्यन्तर्भवन्तीत्येवमाख्यातं पूर्वाचार्यैरिति । एतानि च सामान्येन दर्शयितुमाह'तेजहे 'त्यादि, तद्यथेत्युपदर्शनार्थः क्रियां - ज्ञानादिरहितामेकामेव स्वर्गापवर्गसाधनखेन वदितुं शीलं येषां ते क्रियावादिनः, | ते च दीक्षात एव मोक्षं वदन्तीत्येवमादयो द्रष्टव्या इति, तेषां च बहवो भेदाः, तथा अक्रियां परलोकसाधनत्वेन वदितुं शीलं येषां ते तथा तेषामिति, अज्ञानमेव श्रेयः इत्येवं वदितुं शीलं येषां ते भवन्त्यज्ञानवादिनस्तेषां तथा विनय एव परलोकसाधने प्रधानं कारणं येषां ते तथा तेषामिति । अत्र च सर्वत्र पष्ठीबहुवचनेनेदमाह, तद्यथा - क्रियावादिनामशीत्युत्तरं शतं अक्रि| यावादिनां चतुरशीतिरज्ञानिकानां सप्तषष्टिवैनयिकानां द्वात्रिंशदिति । तत्र च सर्वेऽप्येते मौलास्तच्छिष्याच प्रवदनशीलत्वात्प्रावादुकाः, तेषां च भेदसंख्यापरिज्ञानोपाय आचार एवाभिहित इति नेह प्रतन्यते । ते सर्वेऽप्यार्हता इव परिनिर्वाणम् - अशेष| द्वन्द्वोपरमरूपमवर्णगन्धरसस्पर्शस्वभावमनुपचरित परमार्थस्थानं ब्रह्मपदाख्यमत्राघात्मकं परमानन्द सुखखरूपमाहुः – उक्तवन्तः, | तथा तेऽपि प्रावादुकाः संसारबन्धनान्मोचनात्मकं मोक्षमाहुः, पूर्वेण निरुपाधिकं कार्यमेव निर्वाणाख्यमुक्तम्, अनेन तु तदेव कारणोपाधिकमित्ययं विशेषः । तत्र येपामप्यात्मा नास्ति ज्ञानसन्ततिवादिनां तेषामपि कर्मसंततेः संसार निबन्धन भताया विच्छे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org