SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥३३७॥ व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च 'प्रतीत्य' आश्रित्य पापाड्डीनः पण्डितः परमार्थज्ञो वेत्येवमाधीयते आख्यायते वा, तथा विरताविरतिं चाश्रित्य बालपण्डित इत्येतत्प्राग्वदायोज्यमिति । किमित्यविरति (विरताविरति ) विरत्याश्रेयण (बाल) बाल| पाण्डित्यपाण्डित्यापत्तिरित्याशङ्कयाह – 'तत्थ ण' मित्यादि, 'तत्र' पूर्वोकेषु स्थानेषु येयं 'सर्वात्मना सर्वस्मात् 'अविरतिः' विरतिपरिणामाभावः एतत्स्थानं सावद्यारम्भस्थानमाश्रय एतदाश्रित्य सर्वाण्यकार्याणि क्रियन्ते, यत एवमत एतदनार्य स्थानं नि:शुकतया यत्किश्चन कारित्वाद्यावद सर्वदुः खप्रक्षीणमार्गोऽयं तथैकान्तमिथ्यारूपोऽसाधुरिति । तत्र च येयं 'विरतिः' सम्यक्त्वपूर्विका सावद्यारम्भान्निवृत्तिः सा स्थगितद्वारत्वात् पापानुपादानरूपेति, एतदेवाह - तदेतत्स्थानम् अनारम्भस्थानं - सावद्यानुष्ठानरहितलात्संयमस्थानं, तथा चैतत्स्थानमार्यस्थानम् - आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य तथा सर्वदुः ख प्रक्षीणमार्गः - अशेषकर्मक्षयपथ इति, तथैकान्तसम्यग्भूतः, एतदेवाह - 'साधु' रिति, साधुभूतानुष्ठानात्साधुरिति । तत्र च येयं (विरता) विरतिरभिधीयते सैषा मिश्रस्थानभूता, तदेतदारम्भानारम्भरूपस्थानम्, एतदपि कथञ्चिदार्यमेव, पारम्पर्येण सर्वदुः खप्रक्षीणमार्गः, तथैकान्तसम्यग्भूतः साधुचेति । तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षचेति संक्षेपेणाभिहितः पक्षत्रयसमाश्रयणेन ॥ साम्प्रतमसावपि मिश्रपक्षो धर्माधर्मसमाश्रयणेनानयोरन्तर्वर्ती भवतीति दर्शयति एवमेव समणुगम्ममाणा इमेहिं चेय दोहिं ठाणेहिं समोअरंति, तंजहा - धम्मे चेव अधम्मे चेव उवसंते व अणुवते चैव तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्स्वस्स विभंगे एवमाहिए, तत्थ णं इमाई तिन तेवहा पावादुसयाइं भवतीति मक्खायाईं (पं), तंजहा - किरियावाईणं अकिरियावाईणं अन्ना Jain Education International For Personal & Private Use Only २ क्रियास्थानाध्य० ॥३३७॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy