SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ yoooo णं जा सा सवओ विरयाविरई एस ठाणे आरंभणोआरंभट्टाणे एस ठाणे आरिए जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साहू ॥ सूत्रं ३९॥ अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते-एतच्च यद्यपि मिश्रखाद्धर्माधर्माभ्यामुपपेतं तथापि धर्मभूयिष्ठखाद्धार्मिकपक्ष एवावतरति, तद्यथा-बहुषु गुणेषु मध्यपतितो दोपो नात्मानं लभते, कलङ्क इव चन्द्रिकायाः, तथा बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कलुपयितुमलम् , एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायं । 'इह' अस्मिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा-अल्पा-स्तोका परिग्रहारम्भेष्वि&च्छा-अन्तःकरणप्रवृत्तिर्येषां ते तथा एवंभूता धार्मिकवृत्तयः प्रायः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधवो भवन्तीति । ९ | तथैकस्मात्-स्थूलात्संकल्पकृतात् प्रतिनिवृत्ता एकस्माच्च सूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपि व्रतानि संयोज्यानीति । | एतसादपि सामान्येन निवृत्ता इत्यतिदिशन्नाह–'जे यावण्णे' इत्यादि, ये चान्ये सावद्या नरकादिगमनहेतवः कर्मसमारम्भास्तेभ्य एकसाद्यत्रपीडननिर्लाञ्छनकृपीवलादेर्निवृत्ता एकसाच्च क्रयविक्रयादेरनिवृत्ता इति ॥ तांश्च विशेषतो दर्शयितुमाह-विशिष्टोपदेशार्थ श्रमणानुपासते-सेवन्त इति श्रमणोपासकाः, ते च श्रमणोपासनतोऽभिगतजीवाजीवखभावाः तथोपलब्धपुण्यपापाः । इह च प्रायः मूत्रादर्शपु नानाविधानि सूत्राणि दृश्यन्ते न च टीकासंवायेकोऽप्यसाभिरादर्शः समुपलब्धोऽत एकमादर्शमङ्गीकृत्यासाभिर्विवरणं क्रियते इत्येतदवगम्य सूत्रविसंवाददर्शनाच्चित्तव्यामोहो न विधेय इति । ते श्रा-11 |वकाः परिज्ञातवन्धमोक्षस्वरूपाः सन्तो न धर्माच्याव्यन्ते मेरुरिव निष्प्रकम्पा दृढमाईते दर्शनेऽनुरक्ताः । अत्र चार्थे सुखप्रतिप एकसान निवृत्ता इत्यतिदिशन्नाह लाच सूक्ष्मादारम्भजादप्रतिनिसावताः सुप्रत्यानन्दाः साधव 00000000203 Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy