________________
सूत्रकृताङ्गे
२ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः
॥३३०॥
परपरिवादारतिरतिमायामृषावाद मिथ्यादर्शनशल्यादिभ्यो ऽसदनुष्ठानेभ्यो यावज्जीवं येऽप्रतिविरता भवन्तीति । तथा सर्वस्मात्स्नामोन्मर्दनवर्णकविलेपनशब्दस्पर्शरूपरसगन्धमाल्यालङ्कारात्कामाङ्गान्मोहजनितादप्रतिविरता यावज्जीवयेति, इह च वर्णकग्रहणेन वर्णविशेषापादक लोधादिकं गृह्यते, तथा सर्वतः शकटरथादेर्यानविशेषादिकात्प्रतिविस्तर विधेः परिकररूपात्परिग्रहादप्रति विरताः, इह च शकटरथादिकमेव यानं शकटरथयानं, युग्यं - पुरुषोत्क्षिप्तमाकाशयानं 'गिल्लि त्ति पुरुषद्वयोत्क्षिप्ता झोल्लिका 'थिल्लि'ति वेगसराय विनिर्मितो यानविशेषः तथा 'संद्माणिय'त्ति शिबिकाविशेष एव तदेवमन्यस्मादपि वस्त्रादेः परिग्रहादुपकरणभूतादविरताः, तथा सर्वतः - सर्वस्मात्क्रयविक्रयाभ्यां करणभूताभ्यां यो माषकार्धमाषकरूपकार्षापणादिभिः पण्यविनिमयात्मकः संव्यवहारस्तस्मादविरता यावजीवयेति, तथा सर्वस्माद्धिरण्यसुवर्णादेः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेर्यत्वतः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टनपिट्टनतर्जनताडनवधबन्धादिना यः परिक्लेशः प्राणिनां तस्मादविरताः, साम्प्रतमुपसंहरति- ये चान्ये तथाप्रकाराः परपीडाकारिणः सावद्याः कर्मसमारम्भा अबोधिकाः बोद्ध्यभावकारिणः तथा परप्राणपरितापनकरा - गोग्राहबन्दिग्रग्रामघातात्मका येनायैः क्रूरकर्मभिः क्रियन्ते ततोऽप्रतिचिरता यावज्जीवयेति ॥ पुनरन्यथा बहुप्रकारमधार्मिकपदं प्रतिपिपादयिषुराह - 'तद्यथे'त्युपप्रदर्शनार्थो नामशब्दः संभावनायां संभाव्यते अस्मिन्विचित्रे संसारे केचनैवंभूताः पुरुषाः ये कलममसूर तिलमुद्गादिषु पच|नपाचनादिकया क्रियया खपरार्थमयता - अप्रयत्नवन्तो निष्कृपाः क्रूरा मिथ्यादण्डं प्रयुञ्जन्ति, मिथ्यैव- अनपराधिष्वेव दोषमा| रोप्य दण्डो मिथ्यादण्डस्तं विदधति, तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुणा जीवोपघातनिरतास्तित्तिरवर्तकला
Jain Education International
For Personal & Private Use Only
२ क्रियास्थानाध्य० अधर्मेपक्ष
वन्तः
॥३३०॥
www.jainelibrary.org