________________
शध्यायसंघाटकात्मार्थ चत्वारो मोदका अवाप्ताः, कूटं तु-कार्षापणतुलाप्रस्थादेः परवञ्चनार्थ न्यूनाधिककरणम्, एतैरुत्कुञ्चनादिभिः
सहातिशयेन संप्रयोगो यदिवा-सातिशयेन द्रव्येण-कस्तूरिकादिनाऽपरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तबहुला:-तत्प्रधाना || इत्यर्थः, उक्तं च-"सो होई सातिजोगो दवं जं छादियण्णदब्वेसु । दोसगुणा वयणेसु य अत्थविसंवायणं कुणइ ॥१॥"
एते चोत्कुश्चनादयो मायापर्याया इन्द्रशक्रादिवत् कथञ्चित्क्रियाभेदेऽपि द्रष्टव्याः । तथा दुष्टं शीलं येषां ते दुःशीला:चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुमेया दारुणखभावा इत्यर्थः, तथा दुष्टानि व्रतानि येषां ते तथा यथा मांसभक्षणव्रतकालसमाप्तौ प्रभूततरसत्त्वोपघातेन मांसप्रदानम्, अन्यदपि नक्तभोजनादिकं तेषां दुष्ट व्रतमिति, तथाऽन्यसिन् जन्मान्तरे मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धा जन्मान्तरविधिद्वारेण सनिदानमेव व्रतं गृह्णन्ति, तथा दुःखेन प्रत्यानन्द्यन्ते दुष्प्रत्यानन्याः, इदमुक्तं भवति-तैरानन्दितेनापरेण केनचित्प्रत्युपकारेप्सुना गोमाता दुःखेन प्रत्यानन्द्यन्ते, यदिवा सत्यप्युपकारे प्रत्युपकारभीरवो नैवानन्द्यन्ते प्रत्युत शठतयोपकारे दोषमेवोत्पादयन्ति, तथा चोक्तम्-'प्रतिकर्तुमशक्तिष्ठा, नराः पूर्वोपकारिणाम् । दोषमुत्पाघ गच्छन्ति, मद्नामिव वायसाः॥१॥" यत एवमतोऽसाधवस्ते पापकर्मकारिखात , तथा 'यावज्जीवं' यावत्प्राणधारणेन सर्वसात्प्राणातिपातादप्रतिविरता लोकनिन्दनीयादपि ब्राह्मणघातादेरविरता इति सर्वग्रहणं, एवं सर्वसादपि कूटसाक्ष्यादेरपतिविरता इति, तथा सर्वसात्स्त्रीबालादेः परद्रव्यापहरणादविरताः, तथा सर्वस्मात्परस्त्रीगमनादेमैथुनादविरताः, एवं सर्वसात्परिग्रहाद्योनिपोषकादप्यविरताः, एवं सर्वेभ्यः क्रोधमानमायालोभेभ्योऽविरताः, तथा प्रेमद्वेषकलहाभ्याख्यानपैशुन्य| १ स भवति सातियोगो द्रव्यं यच्छादयित्वाऽन्यद्रव्यैः दोषगुणांश्च वचनैरर्थविसंवादनं करोति ॥१॥
90000000000000000
Jain Education International
For Personal & Private Use Only
www.janelibrary.org