SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे खत्रखननख प्रतिपद्यानेनोपायेनात्मानमहं कर्तयिष्यामीत्येवं प्रतिज्ञा कृखा तमेव प्रतिपद्यते, ततोऽसौ संधिं छिन्दन्-खत्रं खनन् २क्रिया२श्रुतस्क- प्राणिनां ( हन्ता) छेत्ता भत्ता विलुम्पयिता भवतीति, एतच्च कृखाऽऽहारमाहारयतीति, एतच्चोपलक्षणमन्यांश्च कामभोगान् । स्थानाध्य० न्धे शीला- | स्वतो भुङ्क्तेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसौ महद्भिः पापैः कर्मभिरात्मानमुपख्यापयति ॥ अथैकः कश्चिदसदनुष्ठायी अधर्मपक्षेकीयावृत्तिः घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधर्मकर्मवृत्तिः उरभ्रा-उरणकास्तैश्चरति ऽनुगामुक त्वाद्याः ॥३२॥ | यः स औरभ्रिकः, स च तदर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भावं प्रतिपद्योरभ्रं वाऽन्यं वा त्रसं प्राणिनं |स्वमांसपुष्टयर्थ व्यापादयति, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेषं पूर्ववत् ॥ अत्रान्तरे सौकरिकपदं, तच्च स्वबुद्ध्या व्याख्येयं, सौकरिका:-श्वपचाचाण्डालाः खट्टिका इत्यर्थः ॥ अथैकः कश्चित् क्षुद्रसत्त्वो 'वागुरिकभावं' लुब्धकलं 'प्र तिसंधाय' प्रतिपद्य वागुरया 'मृगं' हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्यर्थं स्वजनाद्यर्थ वा व्यापादयति, तस्य च ४ हन्ता छेत्ता भेत्ता भवति, शेषं पूर्ववत् ॥ अथैकः कश्चिद्धमोपायजीवी शकुना-लावकादयस्तैश्चरति शाकुनिकस्तद्भाव प्रति| संधाय तन्मांसाद्यर्थी शकुनमन्यं वा त्रसं व्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधमाधमो मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्य(वा)जलचरं प्राणिनं व्यापादयेत् , हननादिकाः वा क्रियाः कुर्यात् , शेषं | सुगमम् ॥ अथैकः कश्चिद्गोपालकभावं प्रतिपद्य कस्याश्विद्गोः कुपितः सन् तां गां 'परिविच्य' पृथक् कृखा तस्या हन्ता छेत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् ॥ अथैकः कश्चित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसं प्राणिनं व्यापादयेत् , तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथैकः कश्चिज्जघन्यकर्मकारी 'शौवनिकभावं प्रति Deseeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy