________________
तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति-तत्रैकः कश्चिदात्माद्यर्थ अपरस्य गन्तुामान्तरं किञ्चिद्रव्यजात-18 | मवगम्य तदादित्सुस्तस्यैवानुगामुकभावं 'प्रतिसंधाय' सहगन्तृभावेनानुकूल्यं प्रतिपद्य विवक्षितवञ्चनावसरकालाद्यपेक्षी तमेव ||
गच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासौ हन्ता दण्डा| दिभिः तथा छेत्ता खड्गादिना हस्तपादादेः तथा भेत्ता वज्रमुष्ट्यादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनतः तथा विलुम्प-10
यिता कशाप्रहारादिभिरत्यन्तदुःखोत्पादनेन तथा अपद्रावयिता जीवितायपरोपणतो भवतीत्येवमादिकं कृखाऽऽहारमाहारयत्यसौ, 18 Ke एतदुक्तं भवति-गलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुविधैरुपायैर्विश्रम्भे पातयिखा भोगार्थी मोहान्धः
साम्प्रतक्षितया तस्य रिक्थवतोऽपकृत्याहारादिका भोगक्रियां विधत्ते । इत्येवमसौ महद्भिः क्रूरैः कर्मभिः-अनुष्ठानमहापातकभूतैर्वा तीब्रानुभावैदीर्घस्थितिकैरात्मानमुपख्यापयिता भवति, तथाहि-अयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारैर्वा कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाकापादितेनावस्थाविशेषेण सता नारकतिर्यड्नरामररूपतयाऽऽख्या-1|| त इति ॥ तदेवमेकः कश्चिदकर्तव्याभिसंधिना परस्य वापतेयवतस्तद्वञ्चनार्थमुपचरकभावं 'प्रतिसंधाय' प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपायैरुपचरति, उपचर्य च विश्रम्भे पातयिला तद्रव्यार्थी तस्य हन्ता छेत्ता भेत्ता यावदपद्रावयिता भवतीत्येवम-18 | सावात्मानं 'महद्भिः' बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ॥ अथैकः कश्चित्प्रतिपथेन-अभिमुखेन चरतीति प्रातिपथिकस्तद्भाव प्रतिपद्यापरस्थार्थवतस्तदेव प्रातिपथिकवं कुर्वन् प्रतिपथे स्थिखा तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति ॥ अथैकः कश्चिद्विरूपकर्मणा जीवितार्थी 'संधिच्छेदकभावं'
a03099090090002025
Jain Education Internalonal
For Personal & Private Use Only
www.jainelibrary.org