________________
तृभगिनीभार्यापुत्रदुहितस्नुषादिभिः सार्धं (सं)वसन् तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमित्येवं मन्यमानो | 'हन्यात्' व्यापादयेत् तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व भवतीति अतो दृष्टिविपर्यासदण्डोऽयम् ॥ पुनरप्यन्यथा | तमेवाह-'से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः पुरुषकारमुद्वहन् ग्रामघातादिके विभ्रमे भ्रान्तचेता दृष्टिविपर्यासादचौरमेव चौरोऽयमित्येवं मन्यमानो व्यापादयेत्, तदेवं 'तेन' भ्रान्तमनसा विभ्रमाकुलेनाचौर एव हतपूर्वो भवति, सोऽयं दृष्टिविपर्यासदण्डः, तदेवं खलु 'तस्य दृष्टिविपर्यासवत् तत्प्रत्ययिकं सावधं कर्माधीयते । तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययिकमाख्यातमिति ॥
अहावरे छठे किरियहाणे मोसावत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे आयहेउं वा णाइहे वा अगारहेउं वा परिवारहेउं वा सयमेव मुसं वयति अण्णेणवि मुसं वाएइ मुसं वयंतंपि अण्णं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, छठे किरियट्ठाणे मोसावत्तिएत्ति आहिए ॥ सूत्रम् २२॥
अथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते, तत्र च पूर्वोक्तानां पञ्चानां क्रियास्थानानां सत्यपि क्रियास्थानले प्रायशः।। | परोपघातो भवतीतिकृखा दण्डसमादानसंज्ञा कृता, षष्ठादिषु च बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानमित्येषा
संज्ञोच्यते, तद्यथा नाम कश्चित्पुरुषः स्वपक्षावेशादाग्रहादात्मनिमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिह्नवरूपमसद्भूतोद्भावनख-1 || भावं वा स्वयमेव मृषावादं वदति, तद्यथा-नाहं मदीयो वा कश्चिच्चौरः, स च चौरमपि सद्भूतमप्यर्थमपलपति, तथा 18| परमचौरं चौरमिति वदति, तथाऽन्येन मृपावादं भाणयति, तथाऽन्यांश्च मृषावादं वदतः समनुजानीते । तदेवं खलु तस्य
eseeeeeeeeeeeeeeeeeeeeeeeese
एeeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org