SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ aoa90093erseas0000000000000 यया व्यवस्थाप्यते सा समुदानक्रिया, सा च मिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं यावत् भवति ४, ईर्यापथक्रिया तूपशान्तमोहादार| भ्य सयोगिकेवलिनं यावदिति ५, सम्यक्खक्रिया तु सम्यग्दर्शनयोग्याः कर्मप्रकृतीः सप्तसप्ततिसंख्या यया बध्नाति साऽभिधीयते । ६, सम्यमिथ्याखक्रिया तु तद्योग्याः प्रकृतीश्चतुःसप्ततिसंख्या यया क्रियया बध्नाति साभिधीयते ७, मिथ्याखक्रिया तु सर्वाः प्रकृतीविंशत्युत्तरशतसंख्यास्तीर्थकराहारकशरीरतदङ्गोपाङ्गत्रिकरहिता यया बध्नाति सा मिथ्याखक्रियेत्यभिधीयते ८ । साम्प्रतं | स्थाननिक्षेपार्थमाह-इयं च गाथाऽऽचारप्रथमश्रुतस्कन्धे द्वितीयाध्ययने लोकविजयाख्ये 'जे गुणे से मूलढाणे' इत्यत्र स्थानशब्दस्य सूत्रस्पर्शिकनियुक्त्यां प्रबन्धेन व्याख्यातेति नेह प्रतन्यते । इह पुनर्यया क्रियया येन च स्थानेनाधिकारस्तद्दर्शयितुमाहक्रियाणां मध्ये समुदानिका क्रिया या व्याख्याता, तस्याश्च कषायानुगतखात् बहवो भेदा यतस्ततस्तासां सामुदानिकानां क्रिया-118 णामिह प्रकरणे 'तउत्ति अधिकारो व्यापारः, सम्यक्प्रयुक्ते च भावस्थाने, तच्चेह विरतिरूपं संयमस्थानं प्रशस्तभावसंधनारूपं च | गृह्यते, सम्यक्प्रयुक्तभावस्थानग्रहणसामर्थ्यादैर्यापथिकी क्रियापि गृह्यते, सामुदानिकाक्रियाग्रहणाचाप्रशस्तभावस्थानान्यपि गृही-|| | तानि, आभिश्च पूर्वोक्ताभिः क्रियाभिः पूर्वोक्तान् पुरुषान् तद्वारायातान्यावादुकांश्च परीक्षेत सर्वानपीति । यथा चैवं तथा खत एव सूत्रकारः 'तंजहा से एगइया मणुस्सा भवंती' त्यादिना तथा प्रावादुकपरीक्षायामपि 'णायओ उवगरणं च विप्पजहाय भि-18 क्खायरियाए समुट्ठिया' इत्यादिना वक्ष्यतीति । गतो नियुक्त्यनुगमः, साम्प्रतं मूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुच्चारयितव्यं, |तच्चेदम् aorad200000000000000000202020 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy