________________
॥ से भिक्खुत्ति, स भिक्षुर्भवति यो महतः कर्मोपादानादुपशान्तः सत्संयमे वोपस्थितः सर्वपापेभ्यश्च विरतः प्रतिविरत इति ॥
एतदेव च महतः कर्मोपादानाद्विरमणं साक्षाद्दर्शयितुमाह-'जे इमे' इत्यादि, ये केचन त्रसाः स्थावराश्च प्राणिनो भवन्ति, तान् सर्वानपि 'नो' नैव स्वयं सत्साधवः समारभन्ते प्राण्युपमर्दकमारम्भं नारम्भन्त इतियावत् , तथा नान्यैः समारम्भयन्ते न
चान्यान् समारभमाणान् समनुजानत इत्येवं महतः कर्मोपादानादुपशान्तः प्रतिविरतो भिक्षुर्भवतीति ॥ साम्प्रतं कामभोगनिवृ18 तिमधिकृत्याह-'जे इमे' इत्यादि, ये केचनामी काम्यन्त इति कामा भुज्यन्त इति भोगाः, ते च सचित्ता अचित्ता वा भवेयुः,
| तांश्च न खतो गृहीयानाप्यन्येन ग्राहयेत् नाप्यपरं गृह्णन्तं समनुजानीयादित्येवं कर्मोपादानाद्विरतो भिक्षुर्भवतीति ॥ साम्प्रतं | सामान्यतः साम्परायिककर्मोपादाननिषेधमधिकृत्याह-यदपीदं संपर्येति तासु तासु गतिष्वनेन कर्मणेति सांपरायिक, तच्च तत्प्र-18 | द्वेषनिह्नवमात्सर्यान्तरायाशातनोपघातैर्वध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीयत इति ॥ | साम्प्रतं भिक्षाविशुद्धिमधिकृत्याह-'से भिक्खू' इत्यादि स भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात् 'अस्सिं पडियाएत्ति | 'एतत्प्रतिज्ञया' आहारदानप्रतिज्ञया यदिवा 'अस्मिन्पर्याये' साधुपर्याये व्यवस्थितमेकं साधु साधर्मिकं समुद्दिश्य कश्चिच्छ्रावकः | प्रकृतिभद्रको वा साध्वाहारदानार्थ 'प्राणिनः' व्यक्तेन्द्रियान् 'भूतानि' त्रिकालभावीनि 'जीवान्' आयुष्कधरणलक्षणान् । 'सत्त्वान्' सदा सत्त्वोपेतान् 'समारभ्य तदुपमर्दकमारम्भं विधाय 'समुद्दिश्य' तत्पीडां सम्यगुद्दिश्य, क्रीतं क्रयेण द्रव्यवि-18|| |निमयेन 'पामिच्छति उद्यतकम् 'आच्छेद्य' मित्यन्यसादाच्छिद्य 'अनिसृष्ट'मिति परेणानुत्संकलितम् 'अभ्याहृत मिति साध्वभिमुखं ग्रामादेरानीतम् 'आहृत्य उपेत्य साध्वर्थ कृतमुद्देशिकमित्येवंभूतमाहारजातं साधवे दत्तं स्यात् , तच्चाकामेन तेन परि
Receaedeseseseeeeeee
dan Education International
For Personal & Private Use Only
www.jainelibrary.org