SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ seeeeeeeeeeeeeeeeeeeeeeeeee मार्ग प्रतिपन्ना विप्रतिपन्ना न सम्यग्वादिनो भवन्ति, तथाहि सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः स्वत एवापरान् | क्रियासु प्रवर्त(य)ते उतापरेण प्रेरितः?, तत्र यद्यायः पेक्षस्तदा तद्वदन्येषामपि स्वत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडुनेश्वर परिकल्पनेन?, अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यपरेणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति । किञ्च असावीश्वरो | महापुरुषतया वीतरागतोपेतः सन्नेकान्नरकयोग्यासु क्रियासु प्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्याखिति , अथ ते पूर्वशुभाशुभाचरितोद| यादेव तथाविधासु क्रियासु प्रवर्तन्ते, स तु निमित्तमात्रम् , तदपि न युक्तिसंगतं, यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा |चोक्तम्-"अज्ञो जन्तु"रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन ?, तथा चोक्तम्-'शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे । असंबद्धस्स किं | स्थाणोः, कारणलं न कल्प्यते ? ॥१॥" इत्यादि । यच्चोक्तं-सर्व तनुभुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थानविशेषखात् देव कुलादिवदिति, एतदपि न युक्तिसंगतं, यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन साधं व्याप्यसिद्धेः, देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृखेनाभ्युपगमात् , न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकलं सिध्यति, अन्यथाऽ|नुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्याभावात् , अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद्, एवं च | सत्यतिप्रसङ्गः स्यात् , उक्तं च-"अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः करणात्सिद्ध्येद्वल्मीकस्यापि तत्कृतिः ॥१॥" इत्यादि । न चेश्वरकर्तृले जगद्वैचित्र्य सिध्यति, तस्सैकरूपलादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्वत्यन्तमयुक्तिसंगतखा१ परासु क्रियासु प्रवर्तते उता. प्रवर्तयते उता० प्र० । २ ०स्ततः प्र. । ३ किं चा० । ४ पूर्वाशुभ. नयोः भ्युपगमार, ताप साधन सर्व तनुश्वनापधादिसंबन्धनादिहेतुपरम्पत्तनमपि तदा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy