________________
मया च श्रुतं तदुध्येतेत्यादिकं, किं तद्भगवताऽऽख्यातमित्याह-'इह' प्रवचने सूत्रकृवितीयश्रुतस्कन्धे वा खलुशब्दो वाक्या लङ्कारे पौण्डरीकाभिधानमध्ययनं पौण्डरीकेण-सितशतपत्रेणात्रोपमा भविष्यतीतिकृता, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम कृतं, तस्य चायमर्थः, णमिति वाक्यालङ्कारे, 'प्रज्ञप्तः' प्ररूपितः, 'सेजह'त्ति तद्यथार्थः, स च वाक्योपन्यासार्थः, नामशब्द: सम्भावनायां, सम्भाव्यते पुष्करिणीदृष्टान्तः, पुष्कराणि-पद्मानि तानि विद्यन्ते यस्यामसौ पुष्करिणी 'स्यादु' भवेदेवम्भूता, तद्यथा| 'बहु' प्रचुरमगाधमुदकं यस्यां सा बहुदका, तथा बहुः-प्रचुरः सीयन्ते-अवबध्यन्ते यसिन्नसौ सेयः-कर्दमः स यस्यां सा बहुसेया-3 प्रचुरकर्दमा बहुश्वेतपद्मसद्भावात् खच्छोदकसंभवाच्च बहुश्वेता वा, तथा 'बहुपुष्कला' बहुसंपूर्णा-प्रचुरोदकभृतेत्यर्थः । तथा लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया सा लब्धार्था, अथवाऽऽस्थानमास्था-प्रतिष्ठा सा लब्धा यया सा लब्धास्था, तथा पौण्डरीकाणि-श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मबर्थीयोत्पत्तेर्बहुपोत्यर्थः । तथा प्रसादः-प्रसन्नता , | निर्मलजलता सा विद्यते यस्याः सा प्रसादिका प्रासादा वा-देवकुलसन्निवेशास्ते विद्यन्ते यस्यां समन्ततः सा प्रासादिका, दर्श-||४| नीया शोभना सत्संनिवेशतो वा द्रष्टव्या दर्शनयोग्या, तथाभिमुख्येन सदाऽवस्थितानि रूपाणि-राजहंसचक्रवाकसारसादीनि | गजमहिपमृगयूथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साभिरूपेति, तथा प्रतिरूपाणि-प्रतिबिम्बानि विद्यन्ते | | यस्यां सा प्रतिरूपा, एतदुक्तं भवति-स्वच्छखात्तस्याः सर्वत्र प्रतिबिम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वा लोकेन तत्प्रतिबि
म्बानि क्रियन्ते(इति) सा प्रतिरूपति, यदिवा-'पासादीया दरिसणीया अभिरूवा पडिरूव'त्ति पर्याया इत्येते चत्वारोऽप्य| १ पुष्कलस्तु पूर्णे श्रेष्ठे इत्यनेकार्थोक्तेः, बहुर्वाऽत्र प्रत्ययः।
Jain Education International
For Personal & Private Use Only
www.janelibrary.org