________________
साभावादित्यभिप्रायः । तथा 'द्विधाऽपीति द्रव्यतो भावतच, तत्र द्रच्यस्रोतांसि यथाखं विषयेष्विन्द्रियप्रवृत्तयः भावस्रोतांसि तु शब्दादिष्वेवानुकूलप्रतिकूलेषु रागद्वेषोद्भवास्तान्युभयरूपाण्यपि स्रोतांसि संवृतेन्द्रियतया रागद्वेषाभावाच्च परिच्छिन्नानि येन स परिच्छिन्नस्रोताः, तथा नो पूजासत्कारलाभार्थी किंतु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदधाति, एतदेव दर्शयतिधर्म:-श्रुतचारित्राख्यस्तेनार्थः स एव वार्थो धर्मार्थः स विद्यते यस्यासौ धमार्थीति, इदमुक्तं भवति-न पूजाद्यर्थ क्रियासुप्रवतते अपितु धर्मार्थीति । किमिति ?, यतो धर्म यथावत्तत्फलानि च स्वर्गावाप्तिलक्षणानि सम्यक् वेत्ति, धर्म च सम्यग् जानानो यत्करोति तदर्शयति-नियागो-मोक्षमार्गः सत्संयमो वा तं सर्वात्मना भावतः प्रतिपन्नः नियागपडिवन्नोत्ति, तथाविधश्च यत्कुर्यात् तदाह-समि(म)यंति समतां समभावरूपां वासीचन्दनकल्पां 'चरेत् सततमनुतिष्ठेत् । किंभूतः सन् ?, आह-दान्तो द्रव्यभूतो | व्युत्सृष्टकायश्च, एतद्गुणसमन्वितः सन् पूर्वोक्तमाहनश्रमणभिक्षुशब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितश्च निर्ग्रन्थ इति वाच्यः । | तेऽपि माहनादयः शब्दा निर्ग्रन्थशब्दप्रवृत्तिनिमित्ताविनाभाविनो भवन्ति, सर्वेऽप्येते भिन्नव्यञ्जना अपि कथश्चिदेकार्था | इति ॥५॥ साम्प्रतमुपसंहारार्थमाह-सुधर्मस्वामी जम्बूस्वामिप्रभृतीनुद्दिश्येदमाह-'से' इति तद्यन्मया कथितमेवमेव जानीत यूयं, नान्यो मद्वचसि विकल्पो विधेयः, यसादहं सर्वज्ञाज्ञया ब्रवीमि । न च सर्वज्ञा भगवन्तः परहितैकरता भयात्रातारो रागद्वेपमोहान्यतरकारणाभावादन्यथा ब्रुवते, अतो यन्मयाऽऽदितः प्रभृति कथितं तदेवमेवावगच्छतेति । इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमादयः सप्त, नैगमस्स सामान्यविशेषात्मकतया संग्रहव्यवहारप्रवेशात्संग्रहादयः पद्, समभिरूढेत्थंभूतयोः शब्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुसूत्रशब्दाः पञ्च, नैगमस्याप्यन्तर्भावाचखारो,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org