________________
यदा विनाशहेतुसद्भावस्तस्य तदा विनाशः, तथा च वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकसमिति, एतच्चानुपासितगुरोर्वचः, तथाहि-तेन मुद्गरादिकेन विनाशहेतुना घटादेः किं क्रियते ?, किमत्र प्रष्टव्यम् ? अभावः क्रियते, अत्र च प्रष्टव्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति ?, तत्र यदि पर्युदासस्ततोऽयमों-भावादन्योऽभावो भावान्तरं-घटात्पटादिः सोऽभाव इति, तत्र भावान्तरे यदि मुद्रादिव्यापारो न तर्हि तेन किश्चिद् घटस्य कृतमि
ति, अथ प्रसज्यप्रतिषेधस्तदाऽयमों-विनाशहेतुरभावं करोति, किमुक्तं भवति ?-भावं न करोतीति, ततश्च क्रियाप्रतिषेध 8 एव कृतः स्यात्, न च घटादेः पदार्थस्य मुद्गरादिना करणं, तस्स खकारणैरेव कृतखात्, अथ भावाभावोऽभावस्तं करोतीति,
तस्य तुच्छस्य नीरूपसात् कुतस्तत्र कारकाणां व्यापारः ?, अथ तत्रापि कारकव्यापारो भवेत् खरशृङ्गादावपि व्याप्रियेरन् कारकाणीति । तदेवं विनाशहेतोरकिश्चित्करखात् स्वहेतुत एवानित्यताक्रोडीकृतानां पदार्थानामुत्पत्तेर्विघ्नहेतोश्चाभावात् क्षणिकलमवस्थितमिति । तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धन दर्शयति-'अण्णो अणण्णो' इति ते हि बौद्धा यथाऽऽत्मषष्ठवादिनः सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तो यथा च चार्वाका भूताव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तस्तथा 'नैवाहुः' नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादित इतियावत् तथाऽहेतुकोऽनाद्यपर्यवसितखानित्य इत्येवं तमात्मानं ते बौद्धा नाभ्युपगतवन्त इति ॥१७॥ तथाऽपरे बौद्धाश्चातुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाह
पुढवी आउ तेऊ य, तहा वाऊ य एगओ। चत्तारि धाउणो रूवं, एवमाहंसु आवरे ॥ १८॥
392909202992989092029929899
Jan Education internalonal
For Personal & Private Use Only
A
Mjainelibrary.org