________________
सूत्रकृताङ्ग शीलाङ्काचायत्तियुतं
॥२५७॥
इओ जेण सेवंति, आइमोक्खा हु ते जणा । ते जणा बंधणुम्मुक्का, नावकंखंति जीवियं ॥ ९ ॥ जीवितं पिओ किच्चा, अंतं पार्वति कम्मुणं । कम्मुणा संमुहीभूता, जे मग्गमणुसासई ॥ १० ॥ अणुसासणं पुढो पाणी, वसुमं पूयणासु ( स ) ते । अणासए जते दंते, दढे आरयमेहुणे ॥ ११ ॥
वारे व ण लीएजा, छिन्नसोए अणाविले । अणाइले सया दंते, संधिं पत्ते अणेलिसं ॥ १२ ॥ | ये महासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारणं [त]या स्त्रियः सुगतिमार्गार्गलाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजालशताकुला महामोहनशक्तयो 'न सेवन्ते' न तत्प्रसङ्गमभिलपन्ति त एवंभूता जना इतरजनातीताः साधव आदौप्रथमं मोक्षः - अशेषद्वन्द्वोपरमरूपो येषां ते आदिमोक्षाः, हुरवधारणे, आदिमोक्षा एव तेऽवगन्तव्याः, इदमुक्तं भवति - | सर्वाविनयास्पदभूतः स्त्रीप्रसङ्गो यैः परित्यक्तस्त एवादिमोक्षाः - प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः, आदिशब्दस्य प्रधानवाचिखात्, न केवलमुद्यतास्ते जनाः स्त्रीपाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो 'नावकाङ्क्षन्ति' नाभिलपन्ति असंयमजीवितम् | अपरमपि परिग्रहादिकं नाभिलषन्ते यदिवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्षैकताना 'जीवितं ' दीर्घकालजीवितं | नाभिकाङ्क्षन्तीति ॥ ९ ॥ किंचान्यत्- 'जीवितम्' असंयमजीवितं 'पृष्ठतः कृत्वा' अनादृत्य प्राणधारणलक्षणं वा जीवि| तमनादृत्य सदनुष्ठानपरायणा: 'कर्मणां ' ज्ञानावरणादीनाम् ' अन्तं' पर्यवसानं प्राप्नुवन्ति, अथवा 'कर्मणा' सदनुष्ठानेन जी| वितनिरपेक्षाः संसारोदन्वतोऽन्तं - सर्वद्वन्द्वोपरमरूपं मोक्षाख्यमाशुवन्ति, सर्वदुःखविमोक्षलक्षणं मोक्षमप्राप्ता अपि कर्मणा - विशि
Jain Education International
For Personal & Private Use Only
१५ आदानीयाध्य०
॥२५७॥
www.jainelibrary.org