SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Sasraeo200000000000000000 कथम्? ॥१॥" इत्यादि, एतत्परिहारार्थमाह-'अनीदृशस्य अनन्यसदृशस्य यः परिच्छेदक आख्याता च नासौ 'तत्र तत्र' |दर्शने बौद्धादिके भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति, तथाहि-शाक्यमुनिः सर्व क्षणिकमिच्छन् पर्यायानेवेच्छति न द्रव्यं, द्रव्यमन्तरेण च निर्बीजखात् पर्यायाणामप्यभावः प्राप्नोत्यतः पर्यायानिच्छताऽवश्यमकामेनापि तदाधारभूतं परिणामि द्रव्यमेष्टव्यं, तदनभ्युपगमाच नासौ सर्वज्ञ इति, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावस्य द्रव्यस्यैवैकस्याभ्युपगमादध्यक्षाध्यवसीय| मानानामर्थक्रियासमर्थानां पर्यायाणामनभ्युपगमान्निष्पर्यायस्य द्रव्यस्याप्यभावात्कपिलोऽपि न सर्वज्ञ इति, तथा क्षीरोदकवदभिनयोद्रव्यपर्याययो देनाभ्युपगमादुलूकस्यापि न सर्वज्ञखम् । असर्वत्रखाच तीर्थान्तरीयाणां मध्ये न कश्चिदप्यनीदृशस्य-अनन्यस-10 दृशस्यार्थस्य द्रव्यपर्यायोभयरूपस्याख्याता भवतीत्यहनेवातीतानागतवर्तमानत्रिकालवर्तिनोऽर्थस्य वाख्यातेति न तत्र तत्रेति स्थि| तम् ॥ २॥ साम्प्रतमेतदेव कुतीथिकानामसर्वज्ञसमर्हतश्च सर्वज्ञवं यथा भवति तथा सोपपत्तिकं दर्शयितुमाह-तत्र तत्रेति वीप्सापदं यद्यत्तेनार्हता जीवाजीवादिकं पदार्थजातं तथा मिथ्याखाविरतिप्रमादकवाययोगा बन्धहेतव इतिकृखा संसारकारणखेन तथा सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति मोक्षाङ्गतयेत्येतत्सर्व पूर्वोत्तराविरोधितया युक्तिभिरुपपन्नतया च सुष्ठाख्यातं खाख्यातं, तीर्थिकवचनं तु 'न हिंस्याद्भूतानीति भणिखा तदुपमर्दकारम्भाभ्यनुज्ञानात्पूर्वोत्तरविरोधितया तत्र तत्र चिन्त्यमानं | नियुक्तिकखान्न खाख्यातं भवति, स चाविरुद्धार्थस्याख्याता रागद्वेषमोहानामनृत कारणानामसंभवात् सद्भ्यो हितखाच सत्यः 'स्वाख्यातः तत्स्वरूपविद्भिः प्रतिपादितः । रागादयो ह्यनृतकारणं ते च तस्य न सन्ति अतः कारणाभावात्कार्याभाव इतिकृता तद्वचो भूतार्थप्रतिपादक, तथा चोक्तम्-"वीतरागा हि सर्वज्ञा, मिथ्या न बुवते वचः । यसात्तस्मादचस्तेषां, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy