SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ___ अथवा 'जमतीय'ति असाध्ययनस्य नाम, तच्चादानपदेन, आदावादीयते इत्यादानं, तच्च ग्रहणमित्युच्यते, तत आदानग्रहणयोनिक्षेपार्थ नियुक्तिकृदाह-'आदाणे' इत्यादि, आदीयते कार्यार्थिना तदित्यादानं, कर्मणि ल्युट् प्रत्ययः, करणे वा, आदीयते-15 गृह्यते स्वीक्रियते विवक्षितमनेनेतिकृखा, आदानं च पर्यायतो ग्रहणमित्युच्यते,तत आदानग्रहणयोनिक्षेपो(पे) भवति द्वौ चतुष्को, तद्यथा-नामादानं स्थापनादानं द्रव्यादानं भावादानं च, तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तं, यसाल्लौकिकैः परित्यक्ता-19 न्यकर्तव्यैर्महता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिहखा, भावादानं तु द्विधा-प्रशस्तमप्रशस्तं च, | तत्राप्रशस्तं क्रोधायुदयो मिथ्याखाविरत्यादिकं वा, प्रशस्तं तूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसायकण्डकोपादानं सम्यग्ज्ञानादिकं वेत्येतदर्थप्रतिपादनपरमेतदेव वाऽध्ययनं द्रष्टव्यमिति, एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो द्रष्टव्यः, भावार्थोऽप्यादानपदस्येव द्रष्टव्यः, तत्पर्यायखादस्येति । एतच्च ग्रहणं नैगमसंग्रहव्यवहारर्जुमूत्रार्थनयाभिप्रायेणादानपदेन सहालोच्यमानं शक्रेन्द्रादिवदेकार्थम्-अभिन्नार्थ भवेत् , शब्दसमभिरूढेत्थंभूतशब्दनयाभिप्रायेण च नानार्थ भवेत् । इह तु 'प्रकृतं' प्रस्ताव 'आदाने' | आदानविषये यत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य नाम कृतमिति ॥ आदानीयाभिधान-| स्यान्यथा वा प्रवृत्तिनिमित्तमाह-यत् पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते-पर्यन्ते तदेव पदं शब्दतोऽर्थत उभयतश्च द्वितीयश्लोकस्यादौ तदर्धस्य वाऽऽदौ भवति एतेन प्रकारेण-आद्यन्तपदसदृशखेनादानीयं भवति, एष आदानीयाभिधानप्रवृत्तेः 'पर्याय अभिप्रायः अन्यो वा विशिष्टज्ञानादि आदानीयोपादानादिति । केचित्तु पुनरस्याध्ययनस्यान्तादिपदयोःसंकलनात्संकलिकेति नाम १ कर्मकरणयोर्भेदात् , यद्वा धातुभेदेनार्थभेदात् , सामान्य ग्रहणं आदावादानादादानमिति वा भेदः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy