________________
तद् बुद्धाः सम्यगनुशासयन्ति-सन्मार्गेऽवतारयन्ति पुत्रमिव पितरः तन्ममैव श्रेय इति मन्तव्यम् ॥१०॥ पुनरप्यस्यार्थस्य पुष्ट्यर्थमाह-'अथे' त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा, यथा तेन' मूढेन सन्मार्गावतारितेन तदनन्तरं तस्य 'अमूढस्य सत्पथोपदेतुः पुलिन्दादेरपि परमुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् 'उदाहृतवान्' अभिहितवान् 'वीर । तीर्थकरोऽन्यो वा गणधरादिकः 'अनुगम्य' बुवा 'अर्थ' परमार्थ चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा-अहमनेन मिथ्याखवनाजन्मजरामरणाद्यनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थान विनयादिभिः पूजा विधेयेति । असिन्नर्थे बहवो दृष्टान्ताः सन्ति, तद्यथा-'गेहमि अग्गिजालाउलंमि जह णाम डज्झमाणमि । जो|| |बोहेइ सुयंत सो तस्स जणो परमबंधू ॥१॥जह वा विससंजुत्तं भत्तं निद्धमिह भोत्तुकामस्स । जोवि सदोसं साहइ सो तस्स ||४ || जणो परमबंधू ॥२॥" ॥ ११ ॥ अयमपरः सूत्रेणैव दृष्टान्तोऽभिधीयते-यथा हि सजलजलधराच्छादितबहलान्धकारायां रात्रौ | 'नेता' नायकोष्टव्यादौ स्वभ्यस्तप्रदेशोऽपि 'मार्ग' पन्थानमन्धकारावृतखात्स्वहस्तादिकमपश्यन्न जानाति-न सम्यक् परिच्छि-12
नत्ति । स एव प्रणेता 'सूर्यस्य' आदित्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते दिक्चक्रे सम्यगाविभूते पाषाणदरिनिम्नोन्नतादिके 8 मार्ग जानाति-विवक्षितप्रदेशप्रापकं पन्थानमभिव्यक्तचक्षुः परिच्छिनत्ति-दोषगुणविचारणतः सम्यगवगच्छतीति ॥ १२ ॥ एवं दृष्टान्तं प्रदर्य दार्टान्तिकमधिकृत्याह
१गेहेऽमिज्वालाकुले यथा नाम दह्यमाने । यो बोधयति सुप्तं स तस्य जनः परमबान्धवः ॥ १॥ यथा वा विषसंयुक्तं भक्तं निग्धं दद भोक्तुकामस्य योऽपि || सदोषं साधयति च तस्य परमबन्धुर्जनः ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org