SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ए उ, रातिणिएणावि समवएणं । सम्मं तयं थिरतो णाभिगच्छे, णिज्जंतए वावि अपारए से ॥७॥ विउट्टितेणं समयाणुसिढे, डहरेण वुड्डेण उ चोइए य । अञ्चुट्टियाए घडदासिए वा, अगारिणं वा समयाणुसिढे ॥ ८॥ | यो हि निर्विण्णसंसारतया प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासतः 'स्थानतश्च स्थानमाश्रित्य तथा शयनत आसनतः, एकश्चकारः समुच्चये द्वितीयोऽनुक्तसमुच्चयार्थः चकाराद्गमनमाश्रित्यागमनं च तथा तपश्चरणादौ पराक्रमतश्च, (सु) साधोः-उद्युक्तविहारिणो ये समाचारास्तैः समायुक्तः सुसाधुयुक्तः, सुसाधुर्हि यत्र स्थानं-कायोत्सर्गादिकं विधत्ते तत्र सम्यक् प्रत्युपेक्षणादिकां क्रियां करोति, कायोत्सर्ग च मेरुरिव निष्प्रकम्पः शरीरनिःस्पृहो विधत्ते, तथा शयनं च कुर्वन् प्रत्युपेक्ष्य संस्तारकं तद्भुवं कायं चोदितकाले गुरुभिरनुज्ञातः स्वपेत् , तत्रापि जाग्रदिव नात्यन्तं निःसह इति । एवमासनादिष्वपि तिष्ठता पूर्ववत्संकुचितगात्रेण खाध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति, तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासी सुसाधुर्भवतीति स्थितम् । अपिच-गुरुकुलवासे निवसन् पञ्चसु समितिष्वीर्यासमित्यादिषु प्रविचाररूपासु तथा तिसषु च गुप्तिषु प्रविचाराप्रविचाररूपासु ४ आगता-उत्पन्ना प्रज्ञा यस्यासावागतप्रज्ञः-संजातकर्तव्याकर्तव्यविवेकः स्वतो भवति, परस्यापि च 'व्याकुर्वन् कथयन् पृथक् || पृथग्गुरोः प्रसादात्परिज्ञातखरूपः समितिगुप्तीनां यथावस्थितखरूपप्रतिपालनं तत्फलं च 'वदेत्' प्रतिपादयेदिति ॥५॥ ईर्या weeeeeeeeeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy