________________
१४अन्याध्ययन
सूत्रकृताङ्गं
॥श हितस्य विज्ञानमुपहास्यप्रायं भवतीति, उक्तं च-"न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भाग शीलाङ्का- पश्यत नृत्यं मयूरस्थ ॥१॥" तथाऽजां गलविलग्नवालुकां पाणिप्रहारेण प्रगुणां दृष्ट्वाऽपरोऽनुपासितगुरुरज्ञो राज्ञी संजातगलचाीयवृ- | गण्डां पाणिप्रहारेण व्यापादितवान् , इत्यादयः अनुपासितगुरोर्बहवो दोषाः संसारवर्धनाद्या भवन्तीत्यवगम्यानया मर्यादया चियुतं
गुरोरन्तिके स्थातव्यमिति दर्शयति-'अवभासयन्' उद्भासयन् सम्यगनुतिष्ठन् 'द्रव्यस्य' मुक्तिगमनयोग्यस्य सत्साधो रागद्वेषर॥२४३॥
हितस्य सर्वज्ञस्य वा वृत्तम्-अनुष्ठानं तत्सदनुष्ठानतोऽवभासयेद्, धर्मकथिकः कथनतो वोद्भासयेदिति । तदेवं यतो गुरुकुलवासो |बहूनां गुणानामाधारो भवत्यतो 'न निष्कसेत् न निर्गच्छेत् गच्छाद्गुर्वन्तिकाद्वा बहिः, खेच्छाचारी न भवेद्, 'आशुप्रज्ञ' इति क्षिप्रप्रज्ञः, तदन्तिके निवसन् विषयकषायाभ्यामात्मानं हियमाणं ज्ञाता क्षिप्रमेवाचार्योपदेशात्वत एव वा 'निवर्तयति' सत्समाधौ व्यवस्थापयतीति ॥ ४ ॥ तदेवं प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासमावसन् सर्वत्र स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्भावयन्नाह
जे ठाणओ य सयणासणे य, परक्कमे यावि सुसाहुजुत्ते । समितीसु गुत्तीसु य आयपन्ने, वियागरिते य पुढो वएज्जा ॥ ५॥ सदाणि सोच्चा अदु भेरवाणि, अणासवे तेसु परिवएज्जा । निदं च भिक्खू न पमाय कुज्जा, कहंकहं वा वितिगिच्छतिन्ने ॥ ६ ॥ डहरेण वुड्ढेणऽणुसासि
eeeeeeeeeeeeeeeseces
॥२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org